ग्रन्थ
13क्षेत्रक्षेत्रज्ञविभागयोग

क्षेत्रक्षेत्रज्ञविभागयोग

Kshetra-Kshetrajna-Vibhaga-Yoga
The Field and its Knower
34 verses · 34 printed blockspp. 298349 · Srimad Bhagavad Gita Shankarabhashyaसाधारण भाषाटीका 34 · साधक-संजीवनी 33 · श्रीमद्भगवद्गीता शांकरभाष्य 34 · श्रीमद्भगवद्गीता — तत्त्वविवेचनी टीका 34
1श्रीभगवान्
श्रीभगवान् उवाच
श्रीभगवानुवाच— इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥ 1॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
4 paragraphs · खोलें
संस्कृत

सप्तमे अध्याये सूचिते द्वे प्रकृती ईश्वरस्य। त्रिगुणात्मिका अष्टधा भिन्ना अपरा संसार-हेतुत्वात् परा च अन्या जीवभूता क्षेत्रज्ञ-लक्षणा ईश्वरात्मिका।

याभ्यां प्रकृतिभ्याम् ईश्वरो जगदुत्पत्ति-स्थितिलयहेतुत्वं प्रतिपद्यते। तत्र क्षेत्रक्षेत्रज्ञ-लक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वद् ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्याय आरभ्यते।

अतीतानन्तराध्याये च “अद्वेष्टा सर्वभूतानाम्” इत्यादिना यावद् अध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्ते इति एतद् उक्तम्, केन पुनः ते तत्त्वज्ञानेन युक्ता यथोक्तधर्माचरणाद् भगवतः प्रिया भवन्ति इति एवमर्थः च अयम् अध्याय आरभ्यते।

प्रकृतिः च त्रिगुणात्मिका सर्वकार्यकरण-विषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थ-कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते सः अयं सङ्घात इदं शरीरं तद् एतत्—

हिन्दी

सातवें अध्यायमें ईश्वरकी दो प्रकृतियाँ बतलायी गयी हैं—पहली आठ प्रकारसे विभक्त त्रिगुणात्मिका प्रकृति जो संसारका कारण होनेसे “अपरा” है। और दूसरी “परा” प्रकृति जो कि जीवभूत, क्षेत्रज्ञरूपा, ईश्वरात्मिका है।

जिन दोनों प्रकृतियोंसे युक्त हुआ ईश्वर जगत्की उत्पत्ति, स्थिति और प्रलयका कारण होता है, उन क्षेत्र और क्षेत्रज्ञरूप दोनों प्रकृतियोंके निरूपणद्वारा उन प्रकृतियोंवाले ईश्वरका तत्त्व निश्चित करनेके लिये यह “क्षेत्रविषयक” अध्याय आरम्भ किया जाता है।

इसके पहले बारहवें अध्यायमें “अद्वेष्टा सर्व-भूतानाम्” से लेकर अध्यायकी समाप्तिपर्यन्त तत्त्वज्ञानी संन्यासियोंकी निष्ठा अर्थात् वे जिस प्रकार बर्ताव करते हैं, सो कहा गया। उपर्युक्त धर्मका आचरण करनेसे फिर वे कौन-से तत्त्व-ज्ञानसे युक्त होकर भगवान्के प्यारे हो जाते हैं, इस आशयको समझानेके लिये भी यह तेरहवाँ अध्याय आरम्भ किया जाता है।

समस्त कार्य, करण और विषयोंके आकारमें परिणत हुई त्रिगुणात्मिका प्रकृति पुरुषके लिये भोग और अपवर्गका सम्पादन करनेके निमित्त देह-इन्द्रियादिके आकारसे संहत (मूर्तिमान्) होती है, वह संघात ही यह शरीर है, उसका वर्णन करनेके लिये श्रीभगवान् बोले—

भाष्य
संस्कृत

इदम् इति सर्वनाम्ना उक्तं विशिनष्टि शरीरम् इति।

हे कौन्तेय क्षतत्राणात् क्षयात् क्षरणात् क्षत्रवद् वा अस्मिन् कर्मफलनिर्वृत्तेः क्षेत्रम् इति। इतिशब्द एवंशब्दपदार्थकः क्षेत्रम् इति एवम् अभिधीयते कथ्यते।

एतत् शरीरं क्षेत्रम् यो वेत्ति विजानाति आपादतलमस्तकं

ज्ञानेन

विषयीकरोति स्वभाविकेन औपदेशिकेन वा वेदनेन विषयी-करोति विभागशः तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति।

इतिशब्द एवंशब्दपदार्थक एव पूर्ववत् क्षेत्रज्ञ इति एवम् आहुः। के, तद्विदः तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः॥ 1॥

हिन्दी

“इदम्” इस सर्वनामसे कही हुई वस्तुको “शरीरम्” इस विशेषणसे स्पष्ट करते हैं।

हे कुन्तीपुत्र! शरीरको चोट आदिसे बचाया जाता है इसलिये, या यह शनैः-शनैः क्षीण— नष्ट होता रहता है इसलिये, अथवा क्षेत्रके समान इसमें कर्मफल प्राप्त होते हैं इसलिये, यह शरीर “क्षेत्र” है इस प्रकार कहा जाता है। यहाँ “इति” शब्द “एवम्” शब्दके अर्थमें है।

इस शरीररूप क्षेत्रको जो जानता है—चरणोंसे लेकर मस्तकपर्यन्त (इस शरीरको) जो ज्ञानसे प्रत्यक्ष करता है अर्थात् स्वाभाविक या उपदेशद्वारा प्राप्त अनुभवसे विभागपूर्वक स्पष्ट जानता है उस जाननेवालेको “क्षेत्रज्ञ” कहते हैं।

यहाँ भी “इति” शब्द पहलेकी भाँति “एवम्” शब्दके अर्थमें ही है, अतः “क्षेत्रज्ञ” ऐसा कहते हैं। कौन कहते हैं? उनको जाननेवाले अर्थात् उन क्षेत्र और क्षेत्रज्ञ दोनोंको जो जानते हैं वे ज्ञानी पुरुष (कहते हैं)॥ 1॥

2
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥ 2॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

एवं क्षेत्रक्षेत्रज्ञौ उक्तौ किम् एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ इति न इति उच्यते—

हिन्दी

इस प्रकार कहे हुए क्षेत्र और क्षेत्रज्ञ क्या इतने ज्ञानसे ही जाने जा सकते हैं? इसपर कहते हैं कि नहीं—

भाष्य
126 paragraphs · खोलें
संस्कृत

क्षेत्रज्ञं यथोक्तलक्षणं च अपि मां परमेश्वरम् असंसारिणं विद्धि जानीहि सर्वक्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धि इति अभिप्रायः।

हे भारत यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्य-व्यतिरेकेण न ज्ञानगोचरम् अन्यद् अवशिष्टम् अस्ति तस्माद् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यद् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते तद् ज्ञानं सम्यग् ज्ञानम् इति मतम् अभिप्रायो मम ईश्वरस्य विष्णोः।

ननु सर्वक्षेत्रेषु एक एव ईश्वरो न अन्यः तद्व्यतिरिक्तो भोक्ता विद्यते चेत् तत ईश्वरस्य संसारित्वं प्राप्तम् ईश्वरव्यतिरेकेण वा संसारिणः अन्यस्य अभावात् संसाराभावप्रसङ्गः तत् च उभयम् अनिष्टं बन्धमोक्षतद्धेतुशास्त्रानर्थक्य-प्रसङ्गात् प्रत्यक्षादिप्रमाणविरोधात् च।

प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसार उपलभ्यते। जगद्वैचित्र्योपलब्धेः च धर्माधर्मनिमित्तः संसारः अनुमीयते। सर्वम् एतद् अनुपपन्नम् आत्मेश्वरैकत्वे।

न, ज्ञानाज्ञानयोः अन्यत्वेन उपपत्तेः।

“दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता।” (क0 उ0 1। 2। 4) तथा च तयोः विद्याविद्याविषययोः फलभेदः अपि विरुद्धो निर्दिष्टः श्रेयः च प्रेयः च इति। विद्याविषयः श्रेयः प्रेयः तु अविद्याकार्यम् इति।

तथा च व्यासः—“द्वाविमावथ पन्थानौ” (महा0 शान्ति0 241। 6) इत्यादि, “इमौ द्वावेव पन्थानौ” इत्यादि च इह च द्वे निष्ठे उक्ते।

अविद्या च सह कार्येण विद्यया हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यते।

श्रुतयः तावत्—“इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः” (के0 उ0 2। 5) “तमेवं विद्वानमृत इह भवति” (नृ0 पू0 उ0 6) “नान्यः पन्था विद्यतेऽयनाय” (श्वे0 उ0 3। 8) “विद्वान्न बिभेति कुतश्चन” (तै0 उ0 2। 4) अविदुषस्तु—“अथ तस्य भयं भवति” (तै0 उ0 2। 7) “अविद्यायामन्तरे वर्तमानाः” (क0 उ0 1। 2। 5) “ब्रह्म वेद ब्रह्मैव भवति” (मु0 उ0 3। 2। 9) “अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्” आत्मविद्यः— “स इदं सर्वं भवति” (बृह0 उ0 1। 4। 10) “यदा चर्मवत्” (श्वे0 उ0 6। 20) इत्याद्याः सहस्त्रशः।

स्मृतयः च—“अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” “इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः” “समं पश्यन्हि सर्वत्र” इत्याद्याः।

न्यायतः च—“सर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य तथा विशिष्टम्॥” (महा0 शा0 201। 17)

तथा च देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तो धर्माधर्मानुष्ठानकृद् जायते म्रियते च इति अवगम्यते, देहादिव्यतिरिक्तात्मदर्शिनो रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमाद् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः।

तत्र एवं सति क्षेत्रज्ञस्य ईश्वरस्य एव सतः अविद्याकृतोपाधिभेदतः संसारित्वम् इव भवति। यथा देहाद्यात्मत्वम् आत्मनः। सर्वजन्तूनां हि प्रसिद्धो देहादिषु अनात्मसु आत्मभावो निश्चितः अविद्याकृतः।

यथा स्थाणौ पुरुषनिश्चयो न च एतावता पुरुषधर्मः स्थाणोः भवति स्थाणुधर्मो वा पुरुषस्य तथा न चैतन्यधर्मो देहस्य देहधर्मो वा चेतनस्य।

सुखदुःखमोहात्मकत्वादिः आत्मनो न युक्तः अविद्याकृतत्वाविशेषाद् जरामृत्युवत्।

न अतुल्यत्वाद् इति चेत्, स्थाणुपुरुषौ ज्ञेयौ

एव

सन्तौ

ज्ञात्रा

अन्योन्यस्मिन् अध्यस्तौ अविद्यया देहात्मनोः तु ज्ञेयज्ञात्रोः एव इतरेतराध्यास इति न समो दृष्टान्तः अतो देहधर्मो ज्ञेयः अपि ज्ञातुः आत्मनो भवति इति चेत्।

न अचैतन्यादिप्रसङ्गात्। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयो ज्ञातुः भवन्ति तर्हि ज्ञेयस्य क्षेत्रस्य धर्माः केचन आत्मनो भवन्ति अविद्याध्यारोपिता जरामरणादयः तु न भवन्ति इति विशेषहेतुः वक्तव्यः।

न भवन्ति इति अस्ति अनुमानम् अविद्या-ध्यारोपितत्वाद् जरादिवद् इति हेयत्वाद् उपादेयत्वात् च इत्यादि।

तव एवं सति कर्तृत्वभोक्तृत्वलक्षणः संसारो ज्ञेयस्थो ज्ञातरि अविद्यया अध्यारोपित इति न तेन ज्ञातुः किञ्चिद् दुष्यति। यथा बालैः अध्यारोपितेन आकाशस्य तलमलवत्त्वादिना।

एवं च सति सर्वक्षेत्रेषु अपि सतो भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रम् अपि न आशङ्क्यम्। न हि क्वचिद् अपि लोके अविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो अपकारो वा दृष्टः।

यत् तु उक्तं न समो दृष्टान्त इति तद् असत्।

कथम्—

अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्। तद् न व्यभिचरति यत् तु ज्ञातरि व्यभिचरति इति मन्यसे तस्य अपि अनैकान्तिकत्वं दर्शितं जरादिभिः।

अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्।

न, अविद्यायाः तामसत्वात्। तामसो हि प्रत्यय आवरणात्मकत्वाद् अविद्या, विपरीत-ग्राहकः संशयोपस्थापको वा अग्रहणात्मको वा। विवेकप्रकाशभावे तदभावात्। तामसे च आवरणात्मके तिमिरादिदोषे सति अग्रहणादेः अविद्यात्रयस्य उपलब्धेः।

अत्र आह एवं तर्हि ज्ञातृधर्मः अविद्या।

न करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः यत्

तु

मन्यसे

ज्ञातृधर्मः

अविद्या तद् एव च अविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम्। तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञो न संसारी इति एतद् अयुक्तम् इति। तद् न, यथा करणे

चक्षुषि

विपरीतग्राहकादिदोषस्य दर्शनाद् न विपरीतादिग्रहणं तन्निमित्तो वा तैमिरिकत्वादिदोषो ग्रहीतुः।

चक्षुषः संस्कारेण तिमिरे अपनीते ग्रहीतुः अदर्शनाद् न ग्रहीतुः धर्मो यथा तथा सर्वत्र एव अग्रहणविपरीतसंशयप्रत्ययाः तन्निमित्ताः करणस्य एव कस्यचिद् भवितुम् अर्हन्ति न ज्ञातुः क्षेत्रज्ञस्य।

संवेद्यत्वात् च तेषां प्रदीपप्रकाशवद् न ज्ञातृधर्मत्वम्। संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्तसंवेद्यत्वम्।

सर्वकरणवियोगे च कैवल्ये सर्ववादिभिः अविद्यादिदोषवत्त्वानभ्युपगमात्।

आत्मनो यदि क्षेत्रज्ञस्य अग्न्युष्णवत् स्वो धर्मः ततो न कदाचिद् अपि तेन वियोगः स्यात्।

अविक्रियस्य च व्योमवत् सर्वगतस्य अमूर्तस्य आत्मनः केनचित् संयोगवियोगा-नुपपत्तेः। सिद्धं क्षेत्रज्ञस्य नित्यम् एव ईश्वरत्वम्।

“अनादित्वान्निर्गुणत्वात्” इत्यादि ईश्वरवचनात् च।

ननु एवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्याद् इति।

न सर्वैः अभ्युपगतत्वात् । सर्वैः हि आत्मवादिभिः अभ्युपगतो दोषो न एकेन परिहर्तव्यो भवति।

कथम् अभ्युपगत इति।

मुक्तात्मनां

संसारसंसारित्वव्यवहाराभावः सर्वैः एव आत्मवादिभिः इष्यते । न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिः अभ्युपगता।

तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति शास्त्रानर्थक्यं भवतु। अविद्याविषये च अर्थवत्त्वम्। यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्यर्थवत्त्वं न मुक्तावस्थायाम् एवम्।

ननु आत्मनो बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते

द्वैतिनां

नः

सर्वेषाम्,

अतो हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात्, अद्वैतिनां

पुनः

द्वैतस्य

अपरमार्थत्वाद् अविद्याकृतत्वाद् बन्धावस्थायाः च आत्मनः अपरमार्थत्वे निर्विषयत्वाद् शास्त्राद्यानर्थक्यम् इति चेत्।

न, आत्मनः अवस्थाभेदानुपपत्तेः। यदि तावद् आत्मनो बन्धमुक्तावस्थे युगपत् स्यातां क्रमेण वा।

युगपत् तावद् विरोधाद् न सम्भवतः स्थितिगती इव एकस्मिन्। क्रमभावित्वे च निर्निमित्तत्वे अनिर्मोक्षप्रसङ्गः अन्य-निमित्तत्वे च स्वतः अभावाद् अपरमार्थत्व-प्रसङ्गः। तथा च सति अभ्युपगमहानिः।

किं च बन्धमुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या अनादि-मती अन्तवती च तत् च प्रमाणविरुद्धं तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धा एव अभ्युपगम्यते।

न च अवस्थावतः अवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम्।

अथ अनित्यत्वदोषपरिहाराय बन्धमुक्तावस्था-भेदो न कल्प्यते अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादिदोषः अपरिहार्य एव इति समानत्वाद् न अद्वैतवादिना परिहर्तव्यो दोषः।

शास्त्रानर्थक्यं

यथाप्रसिद्धा-विद्वत्पुरुषविषयत्वात् शास्त्रस्य। अविदुषां हि फलहेत्वोः अनात्मनोः आत्मदर्शनम्, न विदुषाम्।

विदुषां हि फलहेतुभ्याम् आत्मनः अन्यत्व-दर्शने सति तयोः अहम् इति आत्मदर्शना-नुपपत्तेः।

न हि अत्यन्तमूढ उन्मत्तादिः अपि जलाग्न्योः छायाप्रकाशयोः वा ऐकात्म्यं पश्यति किमुत विवेकी।

तस्माद् न विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्याम् आत्मनः अन्यत्वदर्शिनो भवति।

न हि देवदत्त त्वम् इदं कुरु इति कस्मिंश्चित् कर्मणि नियुक्ते विष्णुमित्रः अहं नियुक्त इति तत्रस्थो नियोगं शृण्वन् अपि प्रतिपद्यते। नियोगविषयविवेकाग्रहणात् तु उपपद्यते प्रति-पत्तिः यथा फलहेत्वोः अपि।

ननु प्राकृतसम्बन्धापेक्षया युक्ता एव प्रति-पत्तिः शास्त्रार्थविषया फलहेतुभ्याम् अन्यात्मत्व-दर्शने अपि सति इष्टफलहेतौ प्रवर्तितः अस्मि अनिष्टफलहेतोः च निवर्तितः अस्मि इति। यथा पितृपुत्रादीनाम्

इतरेतरात्मान्यत्वदर्शने सति

अपि

अन्योन्यनियोगप्रतिषेधार्थ-प्रतिपत्तिः।

न, व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्राग् एव फलहेत्वोः

आत्माभिमानस्य

सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थौ हि फलहेतुभ्याम् आत्मनः अन्यत्वं प्रतिपद्यते न पूर्वम्, तस्माद् विधिप्रतिषेधशास्त्रम् अविद्वद्विषयम् इति सिद्धम्।

ननु “स्वर्गकामो यजेत” “कलञ्जं न भक्षयेत्” इत्यादौ

आत्मव्यतिरेकदर्शिनाम्

अप्रवृत्तौ केवलदेहाद्यात्मदृष्टीनां च, अतः कर्तुः अभावात् शास्त्रानर्थक्यम् इति चेत्।

न, यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः।

ईश्वरक्षेत्रज्ञैकत्वदर्शी, ब्रह्मवित् तावद् न प्रवर्तते। तथा नैरात्म्यवादी अपि न अस्ति परलोक इति न प्रवर्तते। यथाप्रसिद्धितः तु

विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्व

आत्मविशेषानभिज्ञः कर्मफलसञ्जाततृष्णः श्रद्दधानतया च प्रवर्तत इति सर्वेषां नः प्रत्यक्षम्, अतो न शास्त्रानर्थक्यम्।

विवेकिनाम् अप्रवृत्तिदर्शनात् तदनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्।

न, कस्यचिद् एव विवेकोपपत्तेः। अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्याद् यथा इदानीम्।

न च विवेकिनम् अनुवर्तन्ते मूढा रागादिदोषतन्त्रत्वात् प्रवृत्तेः। अभिचरणादौ च प्रवृत्तिदर्शनात्। स्वाभाव्यात् च प्रवृत्तेः। “स्वभावः तु प्रवर्तते” इति हि उक्तम्।

तस्माद् अविद्यामात्रं संसारो यथादृष्टविषय एव। न क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्यं च।

न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम्। न हि ऊषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकं तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति। अतः च इदम् उक्तम् “क्षेत्रज्ञं चापि मां विद्धि”, “अज्ञानेनावृतं ज्ञानम्” इति च।

अथ किम् इदम् संसारिणाम् इव अहम् एवं मम एव इदम् इति पण्डितानाम् अपि।

शृणु इदं तत् पाण्डित्यं यत् क्षेत्रे एव आत्म-दर्शनम्। यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः ततो न भोगं कर्म वा आकाङ्क्षेयुः मम स्याद् इति। विक्रिया एव भोगकर्मणी।

अथ एवं सति फलार्थित्वाद् अविद्वान् प्रवर्तते। विदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरण-सङ्घातव्यापारोपरमे निवृत्तिः उपचर्यते।

इदं च अन्यत् पाण्डित्यं कस्यचिद् अस्तु क्षेत्रज्ञ ईश्वर एवं क्षेत्रं च अन्यत् क्षेत्रज्ञस्य विषयः। अहं तु संसारी सुखी दुःखी च। संसारोपरमः च मम कर्तव्यः क्षेत्रक्षेत्रज्ञ-विज्ञानेन ध्यानेन च ईश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्स्वरूपावस्थानेन इति।

यः च एवं बुध्यते यः च बोधयति न असौ क्षेत्रज्ञ इति। एवं मन्वानो यः स पण्डितापसदः संसारमोक्षयोः शास्त्रस्य च अर्थवत्त्वं करोमि इति।

आत्महा स्वयं मूढः अन्यान् च व्यामोहयति शास्त्रार्थसम्प्रदायरहितत्वात् श्रुतहानिम् अश्रुत-कल्पनां च कुर्वन्।

तस्माद् असम्प्रदायवित् सर्वशास्त्रविद् अपि मूर्खवद् एव उपेक्षणीयः।

यत् तु उक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति क्षेत्रज्ञानां च ईश्वरैकत्वे संसारिणः अभावात् संसाराभावप्रसङ्ग इति। एतौ दोषौ प्रयुक्तौ विद्याविद्ययोः वैलक्षण्याभ्युपगमाद् इति।

कथम्?

अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं न दुष्यति इति। तथा च दृष्टान्तो दर्शितो मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियते इति। संसारिणः अभावात् संसाराभावप्रसङ्ग-दोषः अपि संसारसंसारिणोः अविद्याकल्पित-त्वोपपत्त्या प्रयुक्तः।

ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः तत्कृतं च दुःखित्वादि प्रत्यक्षम् उपलभ्यते।

न, ज्ञेयस्य क्षेत्रधर्मत्वाद् ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः।

यावत्किञ्चित् क्षेत्रज्ञस्य दोषजातम् अविद्य-मानम् आसञ्जयसि तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव न क्षेत्रज्ञधर्मत्वम्। न च तेन क्षेत्रज्ञो दुष्यति ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः। यदि हि संसर्गः स्यात् ज्ञेयत्वम् एव न उपपद्येत।

यदि आत्मनो धर्मः अविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते कथं वा क्षेत्रज्ञधर्मः। ज्ञेयं च सर्वं क्षेत्रं ज्ञाता एव क्षेत्रज्ञ इति अवधारिते अविद्यादुःखित्वादेः क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते अविद्यामात्रावष्टम्भात् केवलम्।

अत्र आह सा अविद्या कस्य इति।

यस्य दृश्यते तस्य एव।

कस्य दृश्यते इति।

अत्र उच्यते अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः।

कथम्?

दृश्यते चेद् अविद्या तद्वन्तम् अपि पश्यसि। न च तद्वति उपलभ्यमाने सा कस्य इति प्रश्नो युक्तः। न हि गोमति उपलभ्यमाने गावः कस्य इति प्रश्नः अर्थवान् भवेत्।

ननु विषयो दृष्टान्तो गवां तद्वतः च प्रत्यक्षत्वात् सम्बन्धः अपि प्रत्यक्ष इति प्रश्नो निरर्थकः, न तथा अविद्या तद्वान् च प्रत्यक्षौ यतः प्रश्नो निरर्थकः स्यात्।

अप्रत्यक्षेण अविद्यावता अविद्यासम्बन्धे ज्ञाते किं तव स्यात्।

अविद्याया

अनर्थहेतुत्वात्

परिहर्तव्या स्यात्।

यस्य अविद्या स तां परिहरिष्यति।

ननु मम एव अविद्या।

जानासि तर्हि अविद्यां तद्वन्तं च आत्मानम्।

जानामि न तु प्रत्यक्षेण।

अनुमानेन चेद् जानासि कथं सम्बन्ध-ग्रहणम्। न हि तव ज्ञातुः ज्ञेयभूतया अविद्यया तत्काले सम्बन्धो ग्रहीतुं शक्यते। अविद्याया विषयत्वेन एव ज्ञातुः उपयुक्तत्वात्।

न च ज्ञातुः अविद्यायाः च सम्बन्धस्य यो ग्रहीता ज्ञानं च अन्यत् तद्विषयं सम्भवति अनवस्थाप्राप्तेः। यदि ज्ञाता अपि ज्ञेयसम्बन्धो ज्ञायेत अन्यो ज्ञाता कल्प्यः स्यात् तस्य अपि अन्यः तस्य अपि अन्य इति अनवस्था अपरिहार्या।

यदि पुनः अविद्या ज्ञेया अन्यद् वा ज्ञेयं ज्ञेयम् एव तथा ज्ञाता अपि ज्ञाता एव न ज्ञेयं भवति। तदा च एवम् अविद्यादुःखित्वाद्यैः न ज्ञातुः क्षेत्रज्ञस्य किञ्चिद् दुष्यति।

ननु अयम् एव दोषो यद् दोषवत्क्षेत्र-विज्ञातृत्वम्।

न, विज्ञानस्वरूपस्य एव अविक्रियस्य विज्ञातृत्वोपचारात्। यथा उष्णतामात्रेण अग्नेः तप्तिक्रियोपचारः तद्वत्।

यथा अत्र भगवता क्रियाकारकफलात्म-त्वाभाव आत्मनि स्वत एव दर्शितः अविद्याध्या-रोपितैः एव क्रियाकारकादि आत्मनि उपचर्यते तथा तत्र तत्र “य एनं वेत्ति हन्तारम्” “प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः” “नादत्ते कस्यचित्पापम्” इत्यादिप्रकरणेषु दर्शितः तथा एव च व्याख्यातम् अस्माभिः उत्तरेषु च प्रकरणेषु दर्शयिष्यामः।

हन्त तर्हि आत्मनि क्रियाकारकफलात्म-तायाः स्वतः अभावे अविद्यया च अध्यारोपि-तत्वे कर्माणि अविद्वत्कर्तव्यानि एव न विदुषाम् इति प्राप्तम्।

सत्यम् एवं प्राप्तम्, एतद् एव च “न हि देहभृता शक्यम्” इति अत्र दर्शयिष्यामः। सर्वशास्त्रार्थोपसंहारप्रकरणे च “समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा” इति अत्र विशेषतो दर्शयिष्यामः अलम् इह बहुप्रपञ्चेन इति उपसंह्रियते॥ 2॥

हिन्दी

तू समस्त क्षेत्रोंमें उपर्युक्त लक्षणोंसे युक्त क्षेत्रज्ञ भी मुझ असंसारी परमेश्वरको ही जान। अर्थात् समस्त शरीरोंमें जो ब्रह्मासे लेकर स्तम्बपर्यन्त अनेक शरीररूप उपाधियोंसे विभक्त हुआ क्षेत्रज्ञ है, उसको समस्त उपाधि-भेदसे रहित एवं सत् और असत् आदि शब्द-प्रतीतिसे जाननेमें न आनेवाला ही समझ।

हे भारत! जब कि क्षेत्र, क्षेत्रज्ञ और ईश्वर—इनके यथार्थ स्वरूपसे अतिरिक्त अन्य कोई ज्ञानका विषय शेष नहीं रहता, इसलिये ज्ञेयस्वरूप क्षेत्र और क्षेत्रज्ञका जो ज्ञान है—जिस ज्ञानसे क्षेत्र और क्षेत्रज्ञ प्रत्यक्ष किये जाते हैं, वही ज्ञान यथार्थ ज्ञान है। मुझ ईश्वर—विष्णुका यही मत—अभिप्राय है।

पू0—यदि समस्त शरीरोंमें एक ही ईश्वर है, उससे अतिरिक्त अन्य कोई भोक्ता नहीं है, ऐसा मानें तो ईश्वरको संसारी मानना हुआ नहीं तो ईश्वरसे अतिरिक्त अन्य संसारीका अभाव होनेसे संसारके अभावका प्रसङ्ग आ जाता है। यह दोनों ही अनिष्ट हैं; क्योंकि ऐसा मान लेनेपर बन्ध, मोक्ष और उनके कारणका प्रतिपादन करनेवाले शास्त्र व्यर्थ हो जाते हैं और प्रत्यक्षादि प्रमाणोंसे भी इस मान्यताका विरोध है।

प्रत्यक्ष प्रमाणसे तो सुख-दुःख और उनका कारणरूप यह संसार दीख ही रहा है। इसके सिवा जगत्की विचित्रताको देखकर पुण्य-पापहेतुक संसारका होना अनुमानसे भी सिद्ध होता है, परंतु आत्मा और ईश्वरका एकता मान लेनेपर ये सब-के-सब अयुक्त ठहरते हैं।

उ0—यह कहना ठीक नहीं; क्योंकि ज्ञान और अज्ञानका भेद होनेसे यह सब सम्भव है।

(श्रुतिमें भी कहा है कि) “प्रसिद्ध जो अविद्या और विद्या हैं वे अत्यन्त विपरीत और भिन्न समझी गयी हैं” तथा (उसी जगह) उन विद्या और अविद्याका फल भी श्रेय और प्रेय इस प्रकार परस्पर-विरुद्ध दिखलाया गया है, इसमें विद्याका फल श्रेय (मोक्ष) और अविद्याका प्रेय (इष्ट भोगोंकी प्राप्ति) है।

वैसे ही श्रीव्यासजीने भी कहा है कि “यह दोनों ही मार्ग हैं” इत्यादि तथा “यह दो ही मार्ग हैं” इत्यादि और यहाँ गीताशास्त्रमें भी दो निष्ठाएँ बतलायी गयी हैं।

इसके सिवा श्रुति, स्मृति और न्यायसे भी यही सिद्ध होता है कि विद्याके द्वारा कार्यसहित अविद्याका नाश करना चाहिये।

इस विषयमें ये श्रुतियाँ “यहाँ यदि जान लिया तो बहुत ठीक है और यदि यहाँ नहीं जाना तो बड़ी भारी हानि है” “उसको इस प्रकार जाननेवाला यहाँ अमृत हो जाता है” “परमपदकी प्राप्तिके लिये (विद्याके सिवा) अन्य मार्ग नहीं है” “विद्वान् किसीसे भी भयभीत नहीं होता।” किंतु अज्ञानीके विषयमें (कहा है कि) “उसको भय होता है” “जो कि अविद्याके बीचमें ही पड़े हुए हैं” “जो ब्रह्मको जानता है वह ब्रह्म ही हो जाता है” “यह देव अन्य है और मैं अन्य हूँ इस प्रकार जो समझता है वह आत्मतत्त्वको नहीं जानता जैसे (मनुष्योंका) पशु होता है वैसे ही वह देवताओंका पशु है” किंतु जो आत्मज्ञानी है (उसके विषयमें) “वह यह सब कुछ हो जाता है” “यदि आकाशको चर्मके समान लपेटा जा सके” इत्यादि सहस्त्रों श्रुतियाँ हैं।

तथा ये स्मृतियाँ भी हैं—“ज्ञान अज्ञानसे ढँका हुआ है, इसलिये जीव मोहित हो रहे हैं” “जिनका चित्त समतामें स्थित है उन्होंने यहीं संसारको जीत लिया है” “सर्वत्र समानभावसे देखता हुआ” इत्यादि।

युक्तिसे भी यह बात सिद्ध है। जैसे कहा है कि “सर्प, कुश-कण्टक और तालाबको जान लेनेपर मनुष्य उनसे बच जाते हैं, किंतु बिना जाने कई एक उनमें गिर जाते हैं, इस न्यायसे ज्ञानका जो विशेष फल है उसको समझ।”

इस प्रकार उपर्युक्त प्रमाणोंसे यह ज्ञात होता है कि देहादिमें आत्मबुद्धि करनेवाला अज्ञानी राग-द्वेषादि दोषोंसे प्रेरित होकर धर्म-अधर्मरूप कर्मोंका अनुष्ठान करता हुआ जन्मता और मरता रहता है, किंतु देहादिसे अतिरिक्त आत्माका साक्षात् करनेवाले पुरुषोंके राग-द्वेषादि दोष निवृत्त हो जाते हैं, इससे उनकी धर्माधर्मविषयक प्रवृत्ति शान्त हो जानेसे वे मुक्त हो जाते हैं। इस बातका कोई भी न्यायानुसार विरोध नहीं कर सकता।

अतः यह सिद्ध हुआ कि जो वास्तवमें ईश्वर ही है उस क्षेत्रज्ञको अविद्याद्वारा आरोपित उपाधिके भेदसे संसारित्व प्राप्त-सा हो जाता है, जैसे कि जीवको देहादिमें आत्मबुद्धि हो जाती है; क्योंकि समस्त जीवोंका जो देहादि अनात्म-पदार्थोंमें आत्मभाव प्रसिद्ध है, वह निःसंदेह अविद्याकृत ही है।

जैसे स्तम्भमें मनुष्यबुद्धि हो जाती है, परंतु इतनेहीसे मनुष्यके धर्म स्तम्भमें और स्तम्भके धर्म मनुष्यमें नहीं आ जाते, वैसे ही चेतनके धर्म देहमें और देहके धर्म चेतनमें नहीं आ सकते।

जरा और मृत्युके समान ही अविद्याके कार्य होनेसे सुख-दुःख और अज्ञान आदि भी उन्हींकी भाँति आत्माके धर्म नहीं हो सकते।

पू0—यदि ऐसा माने कि विषम होनेके कारण यह दृष्टान्त ठीक नहीं है अर्थात् स्तम्भ और पुरुष दोनों ज्ञेय वस्तु हैं, उनमें अविद्यावश ज्ञाताद्वारा एकमें एकका अध्यास किया गया है; परंतु देह और आत्मामें तो ज्ञेय और ज्ञाताका ही एक-दूसरेमें अध्यास होता है, इसलिये यह दृष्टान्त सम नहीं है, अतः यह सिद्ध होता है कि देहका ज्ञेयरूप (सुख-दुःखादि) धर्म भी ज्ञाता—आत्मामें होता है।

उ0—इसमें आत्माको जड़ मानने आदिका प्रसङ्ग आ जाता है, इसलिये ऐसा मानना ठीक नहीं है; क्योंकि यदि ज्ञेयरूप शरीरादि—क्षेत्रक सुख, दुःख, मोह और इच्छादि धर्म ज्ञाता (आत्मा)-के भी होते हैं, तो यह बतलाना चाहिये कि ज्ञेयरूप क्षेत्रके अविद्याद्वारा आरोपित कुछ धर्म तो आत्मामें होते हैं और कुछ—“जरा-मरणादि” नहीं होते, इस विशेषताका कारण क्या है?

बल्कि, ऐसा अनुमान तो किया जा सकता है कि जरा आदिके समान अविद्याद्वारा आरोपित और त्याज्य तथा ग्राह्य होनेके कारण ये सुख-दुःखादि (आत्माके धर्म) नहीं हैं।

ऐसा होनेसे यह सिद्ध हुआ कि कर्तृत्व-भोक्तृत्वरूप यह संसार ज्ञेय वस्तुमें स्थित हुआ ही अविद्याद्वारा ज्ञातामें अध्यारोपित है, अतः उससे ज्ञाताका कुछ भी नहीं बिगड़ता, जैसे कि मूर्खोंद्वारा अध्यारोपित तल-मलिनतादिसे आकाशका (कुछ भी नहीं बिगड़ता)।

अतः सब शरीरोंमें रहते हुए भी भगवान् क्षेत्रज्ञ ईश्वरमें संसारीपनके गन्धमात्रकी भी शङ्का नहीं करनी चाहिये; क्योंकि संसारमें कहीं भी अविद्याद्वारा आरोपित धर्मसे किसीका भी उपकार या अपकार होता नहीं देखा जाता।

तुमने जो यह कहा था कि (स्तम्भमें मनुष्यके भ्रमका) दृष्टान्त सम नहीं है सो (यह कहना) भूल है।

पू0—कैसे?

उ0—अविद्याजन्य अध्यासमात्रमें ही दृष्टान्त और दार्ष्टान्तकी समानता विवक्षित है। उसमें कोई दोष नहीं आता। परंतु तुम जो यह मानते हो कि ज्ञातामें दृष्टान्त और दार्ष्टान्तकी विषमताका दोष आता है, तो उसका भी अपवाद, जरा-मृत्यु आदिके दृष्टान्तसे दिखला दिया गया है।

पू0—यदि ऐसा कहें कि अविद्या-युक्त होनेसे क्षेत्रज्ञको ही संसारित्व प्राप्त हुआ, तो?

उ0—यह कहना ठीक नहीं; क्योंकि अविद्या तामस प्रत्यय है। तामस प्रत्यय, चाहे विपरीत ग्रहण करनेवाला (विपर्यय) हो, चाहे संशय उत्पन्न करनेवाला (संशय) हो और चाहे कुछ भी ग्रहण न करनेवाला हो, आवरणरूप होनेके कारण वह अविद्या ही है; क्योंकि विवेकरूप प्रकाशके होनेपर वह दूर हो जाता है तथा आवरणरूप तमोमय तिमिरादि दोषोंके रहते हुए ही अग्रहण आदिरूप तीन प्रकारकी अविद्याका अस्तित्व उपलब्ध होता है।

पू0—यदि यह बात है तब तो अविद्या ज्ञाताका धर्म हुआ?

उ0—यह कहना ठीक नहीं; क्योंकि तिमिर-रोगादिजन्य दोष चक्षु आदि करणोंमें ही देखे जाते हैं (ज्ञाता आत्मामें नहीं)। जो तुम ऐसा मानते हो कि “अविद्या ज्ञाताका धर्म है और अविद्यारूप धर्मसे युक्त होना ही उसका संसारित्व है, इसलिये यह कहना ठीक नहीं है कि ईश्वर ही क्षेत्रज्ञ है और वह संसारी नहीं है” सो तुम्हारा ऐसा मानना युक्तियुक्त नहीं है; क्योंकि नेत्ररूप करणमें विपरीत ग्राहकता आदि दोष देखे जाते हैं तो भी वे विपरीतादि ग्रहण या उनके कारणरूप तिमिरादि दोष ज्ञाताके नहीं हो जाते (उसी प्रकार देहके धर्म भी आत्माके नहीं हो सकते)।

तथा जैसे आँखका संस्कार करके तिमिरादि प्रतिबन्धको हटा देनेपर ग्रहीता पुरुषमें वे दोष नहीं देखे जाते, इसलिये वे ग्रहीता पुरुषके धर्म नहीं हैं, वैसे ही अग्रहण, विपरीत-ग्रहण और संशय आदि प्रत्यय तथा उनके कारणरूप तिमिरादि दोष भी सर्वत्र किसी-न-किसी करणके ही हो सकते हैं—ज्ञाता पुरुषके अर्थात् क्षेत्रज्ञके नहीं।

इसके सिवा वे जाननेमें आनेवाले (ज्ञानके विषय) होनेसे भी दीपकके प्रकाशकी भाँति ज्ञाताके धर्म नहीं हो सकते; क्योंकि वे ज्ञेय हैं, इसलिये अपनेसे अतिरिक्त किसी अन्यद्वारा जाननेमें आनेवाले हैं।

सभी आत्मवादी समस्त करणोंसे आत्माका वियोग होनेके उपरान्त कैवल्य अवस्थामें आत्माको अविद्यादि दोषोंसे रहित मानते हैं, इससे भी (उपर्युक्त सिद्धान्त ही सिद्ध होता है); क्योंकि यदि अग्निकी उष्णताके समान ये (सुख-दुःखादि दोष) क्षेत्रज्ञ आत्माके अपने धर्म हों तो उनसे उसका कभी वियोग नहीं हो सकेगा।

इसके सिवा आकाशकी भाँति सर्वव्यापक, मूर्ति-रहित, निर्विकार आत्माका किसीके साथ संयोग-वियोग होना सम्भव नहीं है, इससे भी क्षेत्रज्ञकी नित्य ईश्वरता ही सिद्ध होती है।

तथा “अनादित्वान्निर्गुणत्वात्” इत्यादि भगवान्के वचनोंसे भी क्षेत्रज्ञका नित्य ईश्वरत्व ही सिद्ध होता है।

पू0—ऐसा मान लेनेपर तो संसार और संसारित्वका अभाव हो जानेके कारण शास्त्रकी व्यर्थता आदि दोष उपस्थित होंगे?

उ0—नहीं; क्योंकि यह दोष तो सभीने स्वीकार किया है। सभी आत्मवादियोंद्वारा स्वीकार किये हुए दोषका किसी एकके लिये ही परिहार करना आवश्यक नहीं है।

पू0—इसे सबने कैसे स्वीकार किया है?

उ0—सभी आत्मवादियोंने मुक्त आत्मामें संसार और संसारीपनके व्यवहारका अभाव माना है, परंतु (इससे) उनके मतमें शास्त्रकी अनर्थकता आदि दोषोंकी प्राप्ति नहीं मानी गयी।

जैसे समस्त द्वैतवादियोंके मतसे बन्धावस्थामें ही शास्त्र आदिकी सार्थकता है मुक्त-अवस्थामें नहीं, वैसे ही हमारे मतमें भी जीवोंकी ईश्वरके साथ एकता हो जानेपर यदि शास्त्रकी व्यर्थता होती हो तो हो, अविद्यावस्थामें तो उसकी सार्थकता है ही।

पू0—हम सब द्वैतवादियोंके सिद्धान्तसे तो आत्माकी बन्धावस्था और मुक्तावस्था वास्तवमें ही सच्ची है। अतः वे हेय, उपादेय हैं और उनके सब साधन भी सत्य हैं। इस कारण शास्त्रकी सार्थकता हो सकती है। परंतु अद्वैतवादियोंके सिद्धान्तसे तो द्वैतभाव अविद्या-जन्य और मिथ्या है, अतः आत्मामें बन्धावस्था भी वास्तवमें नहीं है, इसलिये शास्त्रका कोई विषय न रहनेके कारण शास्त्र आदिकी व्यर्थताका दोष आता है।

उ0—यह कहना ठीक नहीं; क्योंकि आत्माके अवस्थाभेद सिद्ध नहीं हो सकते, यदि (आत्मामें इनका होना) मान भी लें तो आत्माकी ये बन्ध और मुक्त दोनों अवस्थाएँ एक साथ होनी चाहिये या क्रमसे?

स्थिति और गतिकी भाँति परस्परविरोध होनेके कारण दोनों अवस्थाएँ एक साथ तो एकमें हो नहीं सकतीं। यदि क्रमसे होना मानें तो बिना निमित्तके बन्धावस्थाका होना माननेसे तो उससे कभी छुटकारा न होनेका प्रसङ्ग आ जायगा और किसी निमित्तसे उसका होना मानें तो स्वतः न होनेके कारण वह मिथ्या ठहरती है। ऐसा होनेपर स्वीकार किया हुआ सिद्धान्त कट जाता है।

इसके सिवा बन्धावस्था और मुक्तावस्थाका आगा-पीछा निरूपण किया जानेपर पहले बन्धावस्थाका होना माना जायगा तथा उसे आदिरहित और अन्तयुक्त मानना पड़ेगा; सो यह प्रमाणविरुद्ध है, ऐसे ही मुक्तावस्थाको भी आदियुक्त और अन्तरहित प्रमाणविरुद्ध ही मानना पड़ेगा।

तथा आत्माकी अवस्थावाला और एक अवस्थासे दूसरी अवस्थामें जानेवाला मानकर उसका नित्यत्व सिद्ध करना भी सम्भव नहीं है।

जब कि आत्मामें अनित्यत्वके दोषका परिहार करनेके लिये बन्धावस्था और मुक्तावस्थाके भेदकी कल्पना नहीं की जा सकती। इसलिये द्वैतवादियोंके मतसे भी शास्त्रकी व्यर्थता आदि दोष अबाध्य ही हैं। इस प्रकार दोनोंके लिये समान होनेके कारण इस दोषका परिहार केवल अद्वैतवादियोंद्वारा ही किया जाना आवश्यक नहीं है।

(हमारे मतानुसार तो वास्तवमें) शास्त्रकी व्यर्थता है भी नहीं; क्योंकि शास्त्र लोकप्रसिद्ध अज्ञानीका ही विषय है। अज्ञानियोंका ही फल और हेतुरूप* अनात्म-वस्तुओंमें आत्मभाव होता है, विद्वानोंका नहीं।

क्योंकि विद्वान्की बुद्धिमें फल और हेतुसे आत्माका पृथक्त्व प्रत्यक्ष है, इसलिये उसका उन-(अनात्म-पदार्थों) में “यह मैं हूँ” ऐसा आत्मभाव नहीं हो सकता।

अत्यन्त मूढ़ और उन्मत्त आदि भी जल और अग्निकी या छाया और प्रकाशकी एकता नहीं मानते, फिर विवेकीकी तो बात ही क्या है?

सुतरां फल और हेतुसे आत्माको भिन्न समझ लेनेवाले ज्ञानीके लिये विधि-निषेधविषयक शास्त्र नहीं है।

जैसे “हे देवदत्त! तू अमुक कार्य कर” इस प्रकार किसी कर्ममें (देवदत्तके) नियुक्त किये जानेपर वहीं खड़ा हुआ विष्णुमित्र उस नियुक्तिको सुनकर भी, यह नहीं समझता कि मैं नियुक्त किया गया हूँ। हाँ, नियुक्तिविषयक विवेकका स्पष्ट ग्रहण न होनेसे तो ऐसा समझना ठीक हो सकता है, इसी प्रकार फल और हेतुमें भी (अज्ञानियोंकी आत्मबुद्धि हो सकती है)।

पू0—फल और हेतुसे आत्माके पृथक्त्वका ज्ञान हो जानेपर भी, स्वाभाविक सम्बन्धकी अपेक्षासे शास्त्रविषयक इतना बोध होना तो युक्तियुक्त ही है कि “मैं शास्त्रद्वारा अनुकूल फल और उसके हेतुमें तो प्रवृत्त किया गया हूँ और प्रतिकूल फल और उसके हेतुसे निवृत्त किया गया हूँ”, जैसे कि पिता-पुत्र आदिका आपसमें एक-दूसरेको भिन्न समझते हुए भी एक-दूसरेके लिये किये हुए नियोग और प्रतिषेधको अपने लिये समझना देखा जाता है।

उ0—यह कहना ठीक नहीं; क्योंकि आत्माके पृथक्त्वका ज्ञान होनेसे पहले-पहले ही फल और हेतुमें आत्माभिमान होना सिद्ध है। नियोग और प्रतिषेधके अभिप्रायको भली प्रकार जानकर ही मनुष्य फल और हेतुसे आत्माके पृथक्त्वको जान सकता है, उससे पहले नहीं। इससे सिद्ध हुआ कि विधिनिषेधरूप शास्त्र केवल अज्ञानीके लिये ही है।

पू0—(इस सिद्धान्तके अनुसार) “स्वर्गकी कामनावाला यज्ञ करे” “मांस भक्षण न करे” इत्यादि विधि-निषेध-बोधक शास्त्र-वचनोंमें आत्माका पृथक्त्व जाननेवालोंकी और केवल देहात्मवादियोंकी भी प्रवृत्ति न होनेसे कर्ताका अभाव हो जानेके कारण शास्त्रके व्यर्थ होनेका प्रसङ्ग आ जायगा?

उ0—यह कहना ठीक नहीं है; क्योंकि प्रवृत्ति और निवृत्तिका होना लोकप्रसिद्धिसे ही प्रत्यक्ष है।

ईश्वर और जीवात्माकी एकता देखनेवाला ब्रह्मवेत्ता कर्मोंमें प्रवृत्त नहीं होता तथा आत्मसत्ताको न माननेवाला देहात्मवादी भी “परलोक नहीं है” ऐसा समझकर शास्त्रानुसार नहीं बर्तता यह ठीक है; परंतु लोकप्रसिद्धिसे यह तो हम सबको प्रत्यक्ष है ही कि विधि-निषेध-बोधक शास्त्र-श्रवणकी दूसरी तरह उपपत्ति न होनेके कारण जिसने आत्माके अस्तित्वका अनुमान कर लिया है एवं जो आत्माके असली तत्त्वका ज्ञाता नहीं है; जिसकी कर्मोंके फलमें तृष्णा है, ऐसा मनुष्य श्रद्धालुताके कारण (शास्त्रानुसार कर्मोंमें) प्रवृत्त होता है। अतः शास्त्रकी व्यर्थता नहीं है।

पू0—विवेकशील पुरुषोंकी प्रवृत्ति न देखनेसे उनका अनुकरण करनेवालोंकी भी (शास्त्रविहित कर्मोंमें) प्रवृत्ति नहीं होगी, अतः शास्त्र व्यर्थ हो जायगा।

उ0—यह कहना ठीक नहीं; क्योंकि किसी एकको ही विवेक-ज्ञान प्राप्त होता है। अर्थात् अनेक प्राणियोंमेंसे कोई एक ही विवेकी होता है जैसा कि आजकल (देखा जाता है)।

इसके सिवा मूढ़लोग विवेकियोंका अनुकरण भी नहीं करते; क्योंकि प्रवृत्ति रागादि दोषोंके अधीन हुआ करती है। (प्रतिहिंसाके उद्देश्यसे किये जानेवाले जारण-मारण आदि) अभिचारोंमें भी लोगोंकी प्रवृत्ति देखी जाती है तथा प्रवृत्ति स्वाभाविक है। यह कहा भी है कि “स्वभाव ही बर्तता है।”

सुतरां यह सिद्ध हुआ कि संसार अविद्यामात्र ही है और वह अज्ञानियोंका ही विषय है। केवल शुद्ध क्षेत्रज्ञमें अविद्या और उसके कार्य दोनों ही नहीं हैं।

तथा मिथ्याज्ञान परमार्थवस्तुको दूषित करनेमें समर्थ भी नहीं है। क्योंकि जैसे ऊसर भूमिको मृगतृष्णिकाका जल अपनी आर्द्रतासे कीचड़युक्त नहीं कर सकता, वैसे ही अविद्या भी क्षेत्रज्ञका कु छ भी (उपकार या अपकार) करनेमें समर्थ नहीं है, इसीलिये “क्षेत्रज्ञं चापि मां विद्धि” और “अज्ञानेनावृतं ज्ञानम्” यह कहा है।

पू0—तो फिर यह क्या बात है कि संसारी पुरुषोंकी भाँति पण्डितोंको भी “मैं ऐसा हूँ” “यह वस्तु मेरी ही है” ऐसी प्रतीति होती है।

उ0—सुनो, यह पाण्डित्य बस इतना ही है जो कि क्षेत्रमें ही आत्माको देखना है; परंतु यदि मनुष्य क्षेत्रज्ञको निर्विक ारी समझ ले तो फिर “मुझे अमुक भोग मिले” या “मैं अमुक कर्म करूँ” ऐसी आकाङ्क्षा नहीं कर सकता, क्योंकि भोग और कर्म दोनों विकार ही तो हैं।

सुतरां यह सिद्ध हुआ कि फलेच्छुक होनेके कारण अज्ञानी कर्मोंमें प्रवृत्त होता है; परंतु विकाररहित आत्माका साक्षात् कर लेनेवाले ज्ञानीमें फलेच्छाका अभाव होनेके कारण, उसकी प्रवृत्ति सम्भव नहीं, अतः कार्य-करण-संघातके व्यापारकी निवृत्ति होनेपर उस (ज्ञानी)-में निवृत्तिका उपचार किया जाता है।

किसी-किसीके मतमें यह एक प्रकारकी विद्वत्ता और भी हो सकती है कि क्षेत्रज्ञ तो ईश्वर ही है और उस क्षेत्रज्ञके ज्ञानका विषय क्षेत्र उससे अलग है तथा मैं तो (उन दोनोंसे भिन्न) संसारी और सुखी-दुःखी भी हूँ। मुझे क्षेत्र-क्षेत्रज्ञके ज्ञान और ध्यानद्वारा ईश्वररूप क्षेत्रज्ञका साक्षात् करके उसके स्वरूपमें स्थित होनारूप साधनसे संसारकी निवृत्ति करनी चाहिये।

जो ऐसा समझता है या दूसरेको ऐसा समझाता है कि “वह (जीव) क्षेत्रज्ञ (ब्रह्म) नहीं है तथा जो यह मानता है कि मैं (इस प्रकारके सिद्धान्तसे) संसार, मोक्ष और शास्त्रकी सार्थकता सिद्ध करूँगा, वह पण्डितोंमें अधम है।”

तथा वह आत्महत्यारा, शास्त्रके अर्थकी सम्प्रदायपरम्परासे रहित होनेके कारण, श्रुतिविहित अर्थका त्याग और वेदविरुद्ध अर्थकी कल्पना करके स्वयं मोहित हो रहा है और दूसरोंको भी मोहित करता है।

सुतरां जो शास्त्रार्थकी परम्पराको जाननेवाला नहीं है, वह समस्त शास्त्रोंका ज्ञाता भी हो तो भी मूर्खोंके समान उपेक्षणीय ही है।

और जो यह कहा था कि ईश्वरकी क्षेत्रज्ञके साथ एकता माननेसे तो ईश्वरमें संसारीपन आ जाता है और क्षेत्रज्ञोंकी ईश्वरके साथ एकता माननेसे कोई संसारी न रहनेके कारण संसारके अभावका प्रसङ्ग आ जाता है, सो विद्या और अविद्याकी विलक्षणता-के प्रतिपादनसे इन दोनों दोषोंका ही परिहार कर दिया गया।

पू0—कैसे?

उ0—“अविद्याद्वारा कल्पित किये हुए दोषसे तद्विषयक पारमार्थिक (असली) वस्तु दूषित नहीं होती, इस कथनसे पहली शङ्काका निराकरण किया गया और वैसे ही यह दृष्टान्त भी दिखलाया कि मृगतृष्णिकाके जलसे ऊसर भूमि पङ्कयुक्त नहीं की जा सकती। तथा संसारीका अभाव होनेसे संसारके अभावके प्रसङ्गका जो दोष बतलाया था, उसका भी संसार संसारित्वकी अविद्याकल्पित उपपत्तिको स्वीकार करके निराकरण कर दिया गया।”

पू0—क्षेत्रज्ञका अविद्यायुक्त होना ही तो संसारित्वरूप दोष है, क्योंकि उससे होनेवाले दुःखित्व आदि दोष प्रत्यक्ष देखे जाते हैं।

उ0—यह कहना ठीक नहीं, क्योंकि जो कुछ ज्ञेय है—जाननेमें आता है, वह सब क्षेत्रका ही धर्म है, इसलिये उसके किये हुए दोष ज्ञाता क्षेत्रज्ञके नहीं हो सकते।

तू क्षेत्रज्ञपर वास्तवमें बिना हुए ही जो कुछ भी दोष लाद रहा है, वे सब ज्ञेय होनेके कारण क्षेत्रके ही धर्म हैं, क्षेत्रज्ञके नहीं। उनसे क्षेत्रज्ञ (आत्मा) दूषित नहीं हो सकता, क्योंकि ज्ञेयके साथ ज्ञाताका संसर्ग नहीं हो सकता। यदि उनका संसर्ग मान लिया जाय तो (ज्ञेयका) ज्ञेयत्व ही सिद्ध नहीं हो सकता।

अभिप्राय यह है कि यदि अविद्यायुक्त होना और दुःखी होना आदि आत्माके धर्म हैं तो वे प्रत्यक्ष कैसे दीखते हैं? और वे क्षेत्रज्ञके धर्म हो भी कैसे सकते हैं? क्योंकि जो कुछ भी ज्ञेय वस्तु है वह सब क्षेत्र है और क्षेत्रज्ञ ज्ञाता है, ऐसा सिद्धान्त स्थापित किये जानेपर फिर अविद्यायुक्त होना और दुःखी होना आदि दोषोंको क्षेत्रज्ञके धर्म बतलाना और उनकी प्रत्यक्ष उपलब्धि भी मानना, यह सब अज्ञानमात्रके आश्रयसे केवल विरुद्ध प्रलाप करना है।

पू0—वह अविद्या किसमें है?

उ0—जिसमें दीखती है उसीमें।

पू0—किसमें दीखती है?

उ0—“अविद्या किसमें दीखती है”—यह प्रश्न ही निरर्थक है।

पू0—किस प्रकार?

उ0—यदि अविद्या दीखती है तो उससे जो युक्त है उसको भी तू अवश्य देखता ही होगा? फिर अविद्यावान्की उपलब्धि हो जानेपर वह अविद्या किसमें है, यह पूछना ठीक नहीं है। क्योंकि गौवालेको देख लेनेपर “यह गौ किसकी है?” यह पूछना सार्थक नहीं हो सकता।

पू0—तुम्हारा यह दृष्टान्त विषय है। गौ और उसका स्वामी तो प्रत्यक्ष होनेके कारण उनका सम्बन्ध भी प्रत्यक्ष है, इसलिये (उनके सम्बन्धके विषयमें) प्रश्न निरर्थक है, परंतु उनकी भाँति अविद्यावान् और अविद्या तो प्रत्यक्ष नहीं हैं, जिससे कि यह प्रश्न निरर्थक माना जाय?

उ0—अप्रत्यक्ष अविद्यावान्के साथ अविद्याका सम्बन्ध जान लेनेसे तुम्हें क्या मिलेगा?

पू0—अविद्या अनर्थकी हेतु है, इसलिये उसका त्याग किया जा सकेगा।

उ0—जिसमें अविद्या है, वह उसका स्वयं त्याग कर देगा।

पू0—मुझमें ही तो अविद्या है।

उ0—तब तो तू अविद्या और उससे युक्त अपने-आपको जानता है।

पू0—जानता तो हूँ; परंतु प्रत्यक्षरूपसे नहीं।

उ0—यदि अनुमानसे जानता है तो (तुझ ज्ञाता और अविद्याके) सम्बन्धका ग्रहण कैसे हुआ? क्योंकि उस समय (अविद्याको अनुमानसे जाननेके कालमें) तुझ ज्ञाताका ज्ञेयरूप अविद्याके साथ सम्बन्ध ग्रहण नहीं किया जा सकता, कारण यह है कि ज्ञाताका विषय मानकर ही अविद्याका उपयोग किया गया है।

तथा ज्ञाता और अविद्याके सम्बन्धको जो ग्रहण करनेवाला है वह तथा उस (अविद्या और ज्ञाताके सम्बन्ध)-को विषय करनेवाला कोई दूसरा ज्ञान ये दोनों ही सम्भव नहीं हैं। क्योंकि ऐसा होनेसे अनवस्थादोष प्राप्त होता है अर्थात् यदि ज्ञाता और ज्ञेय-ज्ञाताका सम्बन्ध ये भी (किसीके द्वारा) जाने जाते हैं, ऐसा माना जाय तो उसका ज्ञाता किसी औरको मानना होगा। फिर उसका भी दूसरा और उसका भी दूसरा ज्ञाता मानना होगा, इस प्रकार यह अनवस्था अनिवार्य हो जायगी।

परंतु ज्ञेय चाहे अविद्या हो अथवा और कुछ हो, ज्ञेय ज्ञेय ही रहेगा (ज्ञाता नहीं हो सकता) वैसे ही ज्ञाता भी ज्ञाता ही रहेगा, ज्ञेय नहीं हो सकता, जब कि ऐसा है तो अविद्या या दुःखित्व आदि दोषोंसे ज्ञाता—क्षेत्रज्ञका कुछ भी दूषित नहीं हो सकता।

पू0—यही उसका दोष है जो कि वह दोषयुक्त क्षेत्रका ज्ञाता है।

उ0—यह कहना ठीक नहीं; क्योंकि आत्मा विज्ञानस्वरूप और अविक्रिय है, उसमें (इस) ज्ञातापनका उपचारमात्र किया जाता है, जैसे कि उष्णतामात्र स्वभाव होनेसे अग्निमें तपानेकी क्रियाका उपचार किया जाता है।

जैसे भगवान्ने यहाँ (इस प्रकरणमें) यह दिखाया है कि आत्मामें स्वभावसे ही क्रिया, कारक और फलात्मत्वका अभाव है, केवल अविद्याद्वारा अध्यारोपित होनेके कारण क्रिया, कारक आदि आत्मामें उपचरित होते हैं, वैसे ही, “जो इसे मारनेवाला जानता है” “प्रकृतिके गुणोंद्वारा ही सब कर्म किये जाते हैं” “(वह विभु) किसीके पाप-पुण्यको ग्रहण नहीं करता” इत्यादि प्रकरणोंमें जगह-जगह दिखाया गया है और इसी प्रकार हमने व्याख्या भी की है, तथा आगेके प्रकरणोंमें भी हम दिखलायेंगे।

पू0—तब तो आत्मामें स्वभावसे क्रिया, कारक और फलात्मत्वका अभाव सिद्ध होनेसे तथा ये सब अविद्याद्वारा अध्यारोपित सिद्ध होनेसे यही निश्चय हुआ कि कर्म अविद्वान्को ही कर्तव्य है, विद्वान्को नहीं।

उ0—ठीक यही सिद्ध हुआ। इसी बातको हम “न हि देहभृता शक्यम्” इस प्रकारणमें और सारे गीता-शास्त्रके उपसंहार-प्रकरणमें दिखलायेंगे। तथा “समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा” इस श्लोकके अर्थमें विशेषरूपसे दिखायेंगे। बस, यहाँ अब और अधिक विस्तारकी आवश्यकता नहीं है, इसलिये उपसंहार किया जाता है॥ 2॥

* जाति, आयु और भोगका नाम फल है और शुभाशुभ कर्म उसके हेतु यानी कारण हैं।
3
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत्समासेन मे शृणु॥ 3॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

“इदं शरीरम्” इत्यादि श्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य सङ्ग्रहश्लोकः अयम् उपन्यस्यते तत् क्षेत्रं यत् च इत्यादि व्याचिख्यासितस्य हि अर्थस्य सङ्ग्रहोपन्यासो न्याय्य इति।

हिन्दी

“इदं शरीरम्” इत्यादि श्लोकोंद्वारा उपदेश किये हुए क्षेत्राध्यायके अर्थका संक्षेपरूप यह “तत्क्षेत्रं यच्च” इत्यादि श्लोक कहा जाता है; क्योंकि जिस अर्थका विस्तारपूर्वक वर्णन करना हो, उसका संक्षेप पहले कह देना उचित ही है—

भाष्य
संस्कृत

यद् निर्दिष्टम् इदं शरीरम् इति तत् तच्छब्देन परामृशति।

यत् च इदं निर्दिष्टं क्षेत्रं तद् यादृग् यादृशं स्वकीयैः धर्मैः। च शब्दः समुच्चयार्थो यद्विकारि यो विकारः अस्य तद् यद्विकारि यतो यस्मात् च यत् कार्यम् उत्पद्यते इति वाक्यशेषः।

स च यः क्षेत्रज्ञो निर्दिष्टः स यत्प्रभावो ये प्रभावा उपाधिकृताः शक्तयो यस्य स यत्प्रभावः च। तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं यथाविशेषितं समासेन सङे

क्षपेण मे मम वाक्यतः शृणु श्रुत्वा अवधारय इत्यर्थः॥ 3॥

हिन्दी

जिसका पहले “इदं शरीरम्” इत्यादि (वाक्य) से वर्णन किया गया है, यहाँ “तत्” शब्दसे उसीका संकेत करते हैं।

यह जो पूर्वोक्त क्षेत्र है वह जैसा है अर्थात् अपने धर्मोंके कारण वह जिस प्रकारका है तथा जैसे विकारोंवाला है और जिस कारणसे जो कार्य उत्पन्न होता है—यहाँ “च” शब्द समुच्चयके लिये है; और “कार्य उत्पन्न होता है” यह वाक्यशेष है।

तथा जिसे क्षेत्रज्ञ कहा गया है वह भी जिस प्रभाववाला अर्थात् जिन-जिन उपाधिकृत शक्तियोंवाला है, उन क्षेत्र और क्षेत्रज्ञ दोनोंका उपर्युक्त विशेषणोंसे युक्त यथार्थ स्वरूप तू मुझसे संक्षेपसे सुन अर्थात् सुनकर निश्चय कर॥ 3॥

4
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥ 4॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

तत् क्षेत्रक्षेत्रज्ञयोः याथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थम्।

हिन्दी

श्रोताकी बुद्धिमें रुचि उत्पन्न करनेके लिये, उस कहे जानेवाले क्षेत्र और क्षेत्रज्ञके यथार्थ स्वरूपकी स्तुति करते हैं—

भाष्य
संस्कृत

ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्, छन्दोभिः छन्दांसि ऋगादीनि तैः छन्दोभिः विविधैः नानाप्रकारैः पृथग् विवेकतो गीतम्।

किं च ब्रह्मसूत्रपदैः च एव, ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते ब्रह्म इति तानि पदानि उच्यन्ते। तैः एव च क्षेत्रक्षेत्रज्ञयोः याथात्म्यं गीतम् इति अनुवर्तते। “आत्मेत्येवोपासीत” (बृह0 उ0 1। 4। 7) इत्यादिभिः हि ब्रह्मसूत्रपदैः आत्मा ज्ञायते। हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः न संशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः॥ 4॥

हिन्दी

(यह क्षेत्र और क्षेत्रज्ञका तत्त्व) वसिष्ठादि ऋषियोंद्वारा बहुत प्रकारसे कहा गया है और ऋग्वेदादि नाना प्रकारके श्रुतिवाक्योंद्वारा भी पृथक्-पृथक्—विवेचनपूर्वक कहा गया है।

तथा संशयरहित निश्चित ज्ञान उत्पन्न करनेवाले; विनिश्चित और युक्तियुक्त ब्रह्मसूत्रके पदोंसे भी कहा गया है। जो वाक्य ब्रह्मके सूचक हैं उसका नाम “ब्रह्मसूत्र” है, उनके द्वारा ब्रह्म पाया जाता है—जाना जाता है, इसलिये उनको “पद” कहते हैं, उनसे भी क्षेत्र और क्षेत्रज्ञका तत्त्व कहा गया है; क्योंकि “केवल आत्मा ही सब कुछ है” “ऐसी उपासना करनी चाहिये” इत्यादि ब्रह्मसूचक पदोंसे ही आत्मा जाना जाता है॥ 4॥

5
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥ 5॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

स्तुत्या अभिमुखीभूताय अर्जुनाय आह—

हिन्दी

इस प्रकार स्तुति सुनकर सम्मुख हुए अर्जुनसे भगवान् कहते हैं—

भाष्य
6 paragraphs · खोलें
संस्कृत

महाभूतानि महान्ति च तानि सर्वविकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि तु इन्द्रियगोचरशब्देन अभिधायिष्यन्ते।

अहङ्कारो महाभूतकारणम् अहम्प्रत्ययलक्षणः। अहङ्कारकारणं बुद्धिः अध्यवसायलक्षणा। तत्कारणम् अव्यक्तम् एव च न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वरशक्तिः “मम माया दुरत्यया” इति उक्तम्।

एवशब्दः

प्रकृत्यवधारणार्थ

एतावती एव अष्टधा भिन्ना प्रकृतिः। च शब्दो भेद-समुच्चयार्थः।

इन्द्रियाणि दश श्रोत्रादीनि पञ्च बुद्ध्युत्पादक-त्वाद् बुद्धीन्द्रियाणि वाक्याण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि तानि दश। एकं च किं तद् मन एकादशं सङ्कल्पाद्यात्मकम्। पञ्च च इन्द्रियगोचराः शब्दादयो विषयाः। तानि एतानि साङ्ख्याः चतुर्विंशतितत्त्वानि आचक्षते॥ 5॥

हिन्दी

महाभूत यानी सूक्ष्मभूत, वे सब विकारोंमें व्यापक होनेके कारण महान् भी हैं और भूत भी हैं, इसलिये वे महाभूत कहे जाते हैं। स्थूल पञ्चभूत तो इन्द्रियगोचर-शब्दसे कहे जायँगे, इसलिये यहाँ महाभूत-शब्दसे सूक्ष्म पञ्चमहाभूतोंका ग्रहण है।

महाभूतोंका कारण अहं-प्रत्ययरूप अहंकार तथा अहंकारकी कारणरूपा निश्चयात्मिका बुद्धि और उसकी भी कारणरूपा अव्यक्त प्रकृति; अर्थात् जो व्यक्त नहीं है ऐसी अव्यक्त नामक अव्याकृत—ईश्वर-शक्ति जो कि “मम माया दुरत्यया” इत्यादि वचनोंसे कही गयी है।

यहाँ “एव” शब्द प्रकृतिको विशेषरूपसे बतलानेके लिये है और “च” शब्द सारे भेदका समुच्चय करनेके लिये है। अभिप्राय यह कि यही आठ प्रकारसे विभक्त हुई अपरा प्रकृति है।

तथा दस इन्द्रियाँ अर्थात् श्रोत्रादि पाँच ज्ञान उत्पन्न करनेवाली होनेके कारण ज्ञानेन्द्रियाँ और वाणी आदि पाँच कर्म सम्पादन करनेवाली होनेसे कर्मेन्द्रियाँ और एक ग्यारहवाँ संकल्प-विकल्पात्मक मन तथा शब्द, स्पर्श, रूप, रस और गन्ध—ये पाँच इन्द्रियोंके विषय। इन सबको ही सांख्यमतावलम्बी चौबीस तत्त्व कहते हैं॥ 5॥

6
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम्॥ 6॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

अथ इदानीम् आत्मगुणा इति यान् आचक्षते वैशेषिकाः ते अपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्य इति आह भगवान्—

हिन्दी

अब “जिन इच्छा आदिको वैशेषिकमतावलम्बी आत्माके धर्म मानते हैं वे भी क्षेत्रके ही धर्म हैं आत्माके नहीं” यह बात भगवान् कहते हैं—

भाष्य
10 paragraphs · खोलें
संस्कृत

इच्छा यज्जातीयं सुखहेतुम् अर्थम् उपलब्धवान् पूर्वं पुनः तज्जातीयम् उपलभमानः तम् आदातुम् इच्छति सुखहेतुः इति सा इयम् इच्छा अन्तःकरणधर्मो ज्ञेयत्वात् क्षेत्रम्।

तथा द्वेषो यज्जातीयम् अर्थं दुःखहेतुत्वेन अनुभूतवान् पुनः तज्जातीयम् उपलभमानः तं द्वेष्टि सः अयं द्वेषो ज्ञेयत्वात् क्षेत्रम् एव।

तथा सुखम् अनुकूलं प्रसन्नं सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रम् एव । दुःखं प्रतिकूलात्मकं ज्ञेयत्वात् तद् अपि क्षेत्रम्।

सङ्घातो देहेन्द्रियाणां संहतिः तस्याम् अभिव्यक्ता

अन्तःकरणवृत्तिः

तप्ते

इव लोहपिण्डे अग्निः आत्मचैतन्याभासरसविद्धा चेतना सा च क्षेत्रं ज्ञेयत्वात्।

धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा च ज्ञेयत्वात् क्षेत्रम्।

सर्वान्तःकरणधर्मोपलक्षणार्थम् इच्छादि-ग्रहणम् यत उक्तं तद् उपसंहरति—

एतत क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम्। यस्य क्षेत्रभेद-जातस्य संहतिः इदं शरीरं क्षेत्रम् इति उक्तं तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम्॥ 6॥

हिन्दी

इच्छा—जिस प्रकारके सुखदायक विषयका पहले उपभोग किया हो, फिर वैसे ही पदार्थके प्राप्त होनेपर उसको सुखका कारण समझकर मनुष्य उसे लेना चाहता है, उस चाहका नाम “इच्छा” है, वह अन्तःकरणका धर्म है और ज्ञेय होनेके कारण क्षेत्र है।

तथा द्वेष—जिस प्रकारके पदार्थको दुःखका कारण समझकर पहले अनुभव किया हो, फिर उसी जातिके पदार्थके प्राप्त होनेपर जो उससे मनुष्य द्वेष करता है, उस भावका नाम “द्वेष” है, वह भी ज्ञेय होनेके कारण क्षेत्र ही है।

उसी प्रकार सुख, जो कि अनुकूल, प्रसन्नतारूप और सात्त्विक है, ज्ञेय होनेके कारण क्षेत्र ही है तथा प्रतिकूलतारूप दुःख भी ज्ञेय होनेके कारण क्षेत्र ही है।

देह और इन्द्रियोंका समूह संघात कहलाता है। उसमें प्रकाशित हुई जो अन्तःकरणकी वृत्ति है जो कि “अग्निसे प्रज्वलित लोहपिण्डकी भाँति” आत्मचैतन्यके आभासरूपसे व्याप्त है, वह चेतना भी ज्ञेय होनेके कारण क्षेत्र ही है।

व्याकुल हुए शरीर और इन्द्रियादि जिससे धारण किये जाते हैं, वह धृति भी ज्ञेय होनेसे क्षेत्र ही है।

अन्तःकरणके समस्त धर्मोंका संकेत करनेके लिये यहाँ इच्छादि धर्मोंका ग्रहण किया गया है। जो कुछ कहा गया है, उसका उपसंहार करते हैं—

महत्तत्त्वादि विकारोंके सहित क्षेत्रका यह स्वरूप संक्षेपसे कहा गया। अर्थात् जिन समस्त क्षेत्रभेदोंका समूह “यह शरीर क्षेत्र है” ऐसा कहा गया है, महाभूतोंसे लेकर धृतिपर्यन्त भेदोंसे विभिन्न हुए उस क्षेत्रकी व्याख्या कर दी गयी॥ 6॥

7
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥ 7॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

क्षेत्रज्ञो वक्ष्यमाणविशेषणो यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानाद् अमृतत्वं भवति तं “ज्ञेयं यत्तत्प्रवक्ष्यामि” इत्यादिना सविशेषणं स्वयम् एव वक्ष्यति भगवान्।

अधुना तु तज्ज्ञानसाधनगणम् अमानित्वादि-लक्षणं यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतो भवति यत्परः सन्न्यासी ज्ञाननिष्ठ उच्यते, तम्, अमानित्वादिगणं ज्ञानसाधनत्वाद् ज्ञानशब्दवाच्यं विदधाति भगवान्—

हिन्दी

जो आगे कहे जानेवाले विशेषणोंसे युक्त क्षेत्रज्ञ है, जिस क्षेत्रज्ञको प्रभावसहित जान लेनेसे (मनुष्य) अमृतरूप हो जाता है, उसको भगवान् स्वयं आगे चलकर “ज्ञेयं यत्तत्प्रवक्ष्यामि” इत्यादि वचनोंसे विशेषणोंके सहित कहेंगे।

यहाँ पहले उस (क्षेत्रज्ञ)-के जाननेका उपायरूप जो अमानित्व आदि साधनसमुदाय है, जिसके होनेसे उस ज्ञेयको जाननेके लिये मनुष्य योग्य अधिकारी बन जाता है, जिसके परायण हुआ संन्यासी ज्ञाननिष्ठ कहा जाता है और जो ज्ञानका साधन होनेके कारण ज्ञान नामसे पुकारा जाता है, उस अमानित्वादि गुणसमुदायका भगवान् विधान करते हैं—

भाष्य
संस्कृत

अमानित्वं मानिनो भावो मानित्वम् आत्मनः श्लाघनं तदभावः अमानित्वम्।

अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वं तदभावः अदम्भित्वम्।

अहिंसा अहिंसनं प्राणिनाम् अपीडनम्। क्षान्तिः परापराधप्राप्तौ अविक्रिया। आर्जवम् ऋजुभावो अवक्रत्वम्।

आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम्।

शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् अन्तः च मनसः प्रतिपक्षभावनया रागादिमलानाम् अपनयनं शौचम्।

स्थैर्यं

स्थिरभावो

मोक्षमार्गे

एव कृताध्यवसायत्वम्।

आत्मविनिग्रह

आत्मनः

अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोध आत्मविनिग्रहः॥ 7॥

हिन्दी

अमानित्व—मानीका भाव अर्थात् अपना बड़प्पन प्रकट करना जो मानित्व है, उसका अभाव अमानित्व कहलाता है।

अदम्भित्व—अपने धर्मको प्रकट करना दम्भित्व है; उसका अभाव अदम्भित्व कहा जाता है।

अहिंसा—हिंसा न करना अर्थात् प्राणियोंको कष्ट न देना। क्षमा—दूसरोंका अपने प्रति अपराध देखकर भी विकाररहित रहना। आर्जव—सरलता, अकुटिलता।

आचार्यकी उपासना—मोक्षसाधनका उपदेश करनेवाले गुरुका शुश्रूषा आदि प्रयोगोंसे सेवन करना।

शौच—शारीरिक मलोंको मिट्टी और जल आदिसे साफ करना और अन्तःकरणके राग-द्वेष आदि मलोंको प्रतिपक्ष-भावनासे* दूर करना।

स्थिरता—स्थिरभाव, मोक्षमार्गमें ही निश्चित निष्ठा कर लेना।

आत्मविनिग्रह—आत्माका अपकार करनेवाला और आत्मा शब्दसे कहे जानेवाला, जो कार्य-करणका संघातरूप यह शरीर है, इसका निग्रह अर्थात् इसे स्वाभाविक प्रवृत्तिसे हटाकर सन्मार्गमें ही नियुक्त कर रखना॥ 7॥

* जिस दोषको दूर करना हो उसके विरोधी गुणकी भावना करनेका नाम “प्रतिपक्ष-भावना है।”
8
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 8॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
7 paragraphs · खोलें
संस्कृत

इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम्। अनहङ्कारः अहङ्काराभाव एव च।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं जन्म च मृत्युः च जरा च व्याधयः च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनम्।

जन्मनि गर्भवासयोनिद्वारा निःसरणं दोषः तस्य अनुदर्शनम् आलोचनम्, तथा मृत्यौ दोषानुदर्शनम्, तथा जरायां प्रज्ञाशक्तितेजो निरोधदोषानुदर्शनं परिभूतता च इति। तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनम्, तथा दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु।

अथवा दुःखानि एव दोषो दुःखदोषः तस्य जन्मादिषु पूर्ववद् अनुदर्शनम्। दुःखं जन्म दुःखं मृत्युः दुःखं जरा दुःखं व्याधयः। दुःखनिमित्तत्त्वाद् जन्मादयो दुःखं न पुनः स्वरूपेण एव दुःखम् इति।

एवं

जन्मादिषु

दुःखदोषानुदर्शनाद् देहेन्द्रियविषयभोगेषु वैराग्यम् उपजायते। ततः प्रत्यगात्मनि प्रवृत्तिः करणानाम् आत्म-दर्शनाय। एवं ज्ञानहेतुत्वाद् ज्ञानम् उच्यते जन्मादिदुःखदोषानुदर्शनम्॥ 8॥

हिन्दी

इन्द्रियोंके शब्दादि विषयोंमें वैराग्य अर्थात् ऐहिक और पारलौकिक भोगोंमें आसक्तिका अभाव और अनहंकार—अहंकारका अभाव।

तथा जन्म, मृत्यु, जरा, रोग और दुःखोंमें अर्थात् जन्मसे लेकर दुःखपर्यन्त प्रत्येकमें अलग-अलग दोषोंका देखना।

जन्ममें गर्भवास और योनिद्वारा बाहर निकलनारूप जो दोष है उसको देखना—उसपर विचार करना। वैसे ही मृत्युमें दोष देखना, एवं बुढ़ापेमें प्रज्ञाशक्ति और तेजका तिरोभाव और तिरस्काररूप दोष देखना, तथा सिर-पीड़ादि रोगरूप व्याधियोंमें दोषोंका देखना, अध्यात्म, अधिभूत और अधिदैवके निमित्तसे होनेवाले तीनों प्रकारके दुःखोंमें दोष देखना।

अथवा (यह भी अर्थ किया जा सकता है कि) दुःख ही दोष है, इस दुःखरूप दोषको पहले कहे हुए प्रकारसे जन्मादिमें देखना अर्थात् जन्म दुःखमय है, मरना दुःख है, बुढ़ापा दुःख है और सब रोग दुःख हैं—इस प्रकार देखना, परंतु (यह ध्यान रहे कि) ये जन्मादि दुःखके कारण होनेसे ही दुःख हैं, स्वरूपसे दुःख नहीं हैं।

इस प्रकार जन्मादिमें दुःस्वरूप दोषको बारंबार देखनेसे शरीर, इन्द्रिय और विषयभोगोंमें वैराग्य उत्पन्न हो जाता है। उससे मन-इन्द्रियादि करणोंकी आत्मसाक्षात्कार करनेके लिये अन्तरात्मामें प्रवृत्ति हो जाती है। इस प्रकार ज्ञानका कारण होनेसे जन्मादिमें दुःखरूप दोषकी बारंबार आलोचना करना “ज्ञान” कहा जाता है॥ 8॥

9
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥ 9॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
7 paragraphs · खोलें
संस्कृत

असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रं तदभावः असक्तिः।

अनभिष्वङ्गः अभिष्वङ्गाभावः। अभिष्वङ्गः नाम सक्तिविशेष एव अनन्यात्मभावनालक्षणः। यथा अन्यस्मिन् सुखिनि दुःखिनि वा अहम् एव सुखी दुःखी च जीवति मृते वा अहम् एव जीवामि मरिष्यामि च इति।

क्व इति आह, पुत्रदारगृहादिषु, पुत्रेषु दारेषु गृहेषु, आदिग्रहणाद् अन्येषु अपि अत्यन्तेष्टेषु दासवर्गादिषु। तत् च उभयं ज्ञानार्थत्वाद् ज्ञानम् उच्यते।

“नित्यं

समचित्तत्वं

तुल्यचित्तता, क्व, इष्टानिष्टोपपत्तिषु इष्टानाम् अनिष्टानां च उपपत्तयः सम्प्राप्तयः तासु इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्यचित्तता, इष्टोपपत्तिषु न हृष्यति न कुप्यति च अनिष्टोपपत्तिषु। तत् च एतद् नित्यं समचित्तत्वं ज्ञानम्॥ 9॥

हिन्दी

असक्ति—आसक्ति-निमित्तक विषयोंमें प्रीतिमात्रका नाम सक्ति है, उसका अभाव।

अनभिष्वंग—अभिष्वंगका अभाव। मोहपूर्वक अनन्य आत्मभावनारूप जो विशेष आसक्ति है उसका नाम अभिष्वंग है। जैसे दूसरेके सुखी या दुःखी होनेपर यह मानना कि मैं ही सुखी-दुःखी हूँ। अथवा किसी अन्यके जीने-मरनेपर मैं ही जीता हूँ या मर जाऊँगा, ऐसा मानना।

(ऐसा अभिष्वंग) कहाँ होता है? (सो कहते हैं) पुत्र, स्त्री और घर आदिमें अर्थात् पुत्रमें, स्त्रीमें, घरमें तथा आदि शब्दका ग्रहण होनेसे अन्य जो कोई दासवर्ग आदि अत्यन्त प्रिय होते हैं उनमें भी। असक्ति और अनभिष्वंग ये दोनों ही ज्ञानके साधन हैं, इसलिये इनको भी ज्ञान कहते हैं।

तथा नित्य समचित्तता अर्थात् निरन्तर चित्तकी समानता—किसमें? इष्ट अथवा अनिष्टकी प्राप्तिमें, अर्थात् प्रिय और अप्रियकी जो बारंबार प्राप्ति होती रहती है उसमें सदा ही चित्तका सम रहना। इस साधनवाला प्रियकी प्राप्तिमें हर्षित नहीं होता और अप्रियकी प्राप्तिमें क्रोधयुक्त नहीं होता। इस प्रकारकी जो चित्तकी नित्य समता है वह भी “ज्ञान” है॥ 9॥

10
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 10॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
4 paragraphs · खोलें
संस्कृत

मयि च ईश्वरे अनन्ययोगेन अपृथक्समाधिना न अन्यो भगवतो वासुदेवात् परः अस्ति अतः स एव नो गतिः इति एवं निश्चिता अव्यभि-चारिणी बुद्धिः अनन्ययोगः तेन भजनं भक्तिः न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्।

विविक्तदेशसेवित्वं विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिः च रहितः अरण्यनदीपुलिनदेवगृहादिभिः विविक्तो देशः तं सेवितुं शीलम् यस्य इति विविक्तदेशसेवी तद्भावो विविक्तदेशसेवित्वम्।

विविक्तेषु हि देशेषु चित्तं प्रसीदति यतः तत आत्मादिभावना विविक्ते उपजायते अतो विविक्तदेशसेवित्वं ज्ञानम् उच्यते।

अरतिः अरमणं जनसंसदि जनानां प्राकृतानां संस्कारशून्यानाम् अविनीतानां संसत् समवायो जनसंसत् न संस्कारवतां विनीतानां संसत्, तस्या ज्ञानोपकारकत्वात्, अतः प्राकृतजनसंसदि अरतिः ज्ञानार्थत्वाद् ज्ञानम्॥ 10॥

हिन्दी

मुझ ईश्वरमें अनन्य योगसे—एकत्वरूप समाधियोगसे अव्यभिचारिणी भक्ति। भगवान् वासुदेवसे पर अन्य कोई भी नहीं है, अतः वही हमारी परमगति है, इस प्रकारकी जो निश्चित अविचल बुद्धि है वही अनन्य योग है, उससे युक्त होकर भजन करना ही “कभी विचलित न होनेवाली अव्यभिचारिणी भक्ति” है, वह भी ज्ञान है।

विविक्तदेशसेवित्व—एकान्त पवित्रदेश-सेवनका स्वभाव। जो देश स्वभावसे पवित्र हो या झाड़ने-बुहारने आदि संस्कारोंसे शुद्ध किया गया हो तथा सर्प-व्याघ्र आदि जन्तुओंसे रहित हो, ऐसे वन, नदी-तीर या देवालय आदि विविक्त (एकान्त-पवित्र) देशको सेवन करनेका जिसका स्वभाव है, वह विविक्तदेशसेवी कहलाता है, उसका भाव विविक्तदेशसेवित्व है।

क्योंकि निर्जन-पवित्र देशमें ही चित्त प्रसन्न और स्वच्छ होता है, इसलिये विविक्तदेशमें आत्मादिकी भावना प्रकट होती है, अतः विविक्तदेश-सेवन करनेके स्वभावको “ज्ञान” कहा जाता है।

तथा जनसमुदायमें अप्रीति। यहाँ विनय-भावरहित संस्कार-शून्य प्राकृत पुरुषोंके समुदायका नाम ही जनसमुदाय है। विनययुक्त संस्कारसम्पन्न मनुष्योंका समुदाय जनसमुदाय नहीं है; क्योंकि वह तो ज्ञानमें सहायक है। सुतरां प्राकृतजनसमुदायमें प्रीतिका अभाव ज्ञानका साधन होनेके कारण “ज्ञान” है॥ 10॥

11
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥ 11॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
संस्कृत

अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानम् अध्यात्मज्ञानं तस्मिन् नित्यभावो नित्यत्वम्।

अमानित्वादीनां ज्ञानसाधनानां भावना-परिपाकनिमित्तं तत्त्वज्ञानं तस्य अर्थो मोक्षः संसारोपरमः तस्य आलोचनं तत्त्वज्ञानार्थदर्शनम्, तत्त्वज्ञानफलालोचने

हि

तत्साधनानुष्ठाने प्रवृत्तिः स्याद् इति।

एतद् अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात्।

अज्ञानं यद् अतः अस्माद् यथोक्ताद् अन्यथा विपर्ययेण मानित्वं दम्भित्वं हिंसा अक्षान्तिः अनार्जवम् इत्यादि अज्ञानं विज्ञेयं परिहरणाय संसारप्रवृत्तिकारणत्वाद् इति॥ 11॥

हिन्दी

अध्यात्मज्ञाननित्यत्व आत्मादिविषयक ज्ञानका नाम अध्यात्मज्ञान है, उसमें नित्यस्थिति।

तत्त्वज्ञानके अर्थकी आलोचना अर्थात् अमानित्वादि ज्ञान-साधनोंकी परिपक्व भावनासे उत्पन्न होनेवाला जो तत्त्वज्ञान है उसका अर्थ जो संसारकी उपरतिरूप मोक्ष है, उसकी आलोचना। क्योंकि तत्त्वज्ञानके फलकी आलोचना करनेसे ही उसके साधनोंमें प्रवृत्ति होगी।

“अमानित्व” से लेकर तत्त्वज्ञानके अर्थकी आलोचनापर्यन्त कहा हुआ समस्त साधनसमुदाय ज्ञानका साधन होनेके कारण “ज्ञान” इस नामसे कहा गया है।

इससे अर्थात् उपर्युक्त ज्ञानसाधनोंके समुदायसे विपरीत जो मानित्व, दम्भित्व, हिंसा, क्षमाका अभाव, कुटिलता इत्यादि अवगुणसमुदाय है वह संसारमें प्रवृत्त करनेका हेतु होनेसे उसे त्याग करनेके लिये अज्ञान समझना चाहिये॥ 11॥

12
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते॥ 12॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

यथोक्तेन ज्ञानेन ज्ञातव्यं किम् इति आकाङ क्ष ायाम् आह ज्ञेयं यत् तद् इत्यादि।

ननु यमा नियमाः च अमानित्वादयो न तैः ज्ञेयं ज्ञायते। न हि अमानित्वादि कस्यचिद् वस्तुनः परिच्छेदकं दृष्टम्। सर्वत्र एव च यद् विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते। न हि अन्यविषयेण ज्ञानेन अन्यद् उपलभ्यते। यथा घटविषयेण ज्ञानेन अग्निः।

न एष दोषो ज्ञाननिमित्तत्वाद् ज्ञानम् उच्यते इति हि अवोचाम। ज्ञानसहकारिकारण-त्वात् च—

हिन्दी

उपर्युक्त ज्ञानद्वारा जाननेयोग्य क्या है? इस आकाङक्षापर “ज्ञेयं यत्तत्” इत्यादि श्लोक कहते हैं—

पू0—अमानित्व आदि गुण तो यम और नियम हैं, उनसे ज्ञेय वस्तु नहीं जानी जा सकती; क्योंकि अमानित्वादि सद्गुण किसी वस्तुके ज्ञापक नहीं देखे गये हैं। सभी जगह यह देखा जाता है कि जो ज्ञान जिस वस्तुको विषय करनेवाला होता है वही उसका ज्ञापक होता है, अन्य वस्तुविषयक ज्ञानसे अन्य वस्तु नहीं जानी जाती। जैसे घटविषयक ज्ञानसे अग्नि नहीं जाना जाता।

उ0—यह दोष नहीं है, क्योंकि हम पहले ही कह चुके हैं कि यह अमानित्वादि सद्गुण ज्ञानके साधन होनेसे और उसके सहकारी कारण होनेसे “ज्ञान” नामसे कहे गये हैं—

भाष्य
29 paragraphs · खोलें
संस्कृत

ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावद् वक्ष्यामि।

किं फलं तद् इति प्ररोचनेन श्रोतुः अभि-मुखीकरणाय आह—

यद् ज्ञेयं ज्ञात्वा अमृतम् अमृतत्वम् अश्नुते न पुनः म्रियते इत्यर्थः।

अनादिमद् आदिः अस्य अस्ति इति आदि-मद् न आदिमद् अनादिमत्। किं तत्, परं निरतिशयं ब्रह्म ज्ञेयम् इति प्रकृतम्।

अत्र केचिद् अनादि मत्परम् इति पदं छिन्दन्ति बहुव्रीहिणा उक्ते अर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति।

अर्थविशेषं च दर्शयन्ति अहं वासुदेवाख्या परा शक्तिः यस्य तद् मत्परम् इति।

सत्यम् एवम् अपुनरुक्तं स्याद् अर्थः चेत् सम्भवति न तु अर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेन एव विजिज्ञापयिषितत्वाद् न सत् तद् न असद् उच्यते इति।

विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधः च इति विप्रतिषिद्धम्। तस्माद् मतुपो बहुव्रीहिणा समानार्थत्वे अपि प्रयोगः श्लोकपूरणार्थः।

अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह—

न सत् तद् ज्ञेयम् उच्यते इति न अपि असत् तद् उच्यते।

ननु महता परिकरबन्धेन कण्ठरवेण उद्घुष्य ज्ञेयं प्रवक्ष्यामि इति अननुरूपम् उक्तं न सत् तद् न असद् उच्यते इति।

न, अनुरूपम् एव उक्तम्। कथं सर्वासु हि उपनिषत्सु ज्ञेयं ब्रह्म “नेति नेति” (बृह0 उ0 4। 4। 22) “अस्थूलमनणु” (बृह0 उ0 3। 3। 8) इत्यादिविशेषप्रतिषेधेन एव निर्दिश्यते न इदं तद् इति वाचः अगोचरत्वात्।

ननु न तद् अस्ति यद् वस्तु अस्तिशब्देन न उच्यते। अथ अस्तिशब्देन न उच्यते न अस्ति तद् ज्ञेयम्। विप्रतिषिद्धं च ज्ञेयं तद् अस्तिशब्देन न उच्यते इति च।

न तावद् न अस्ति नास्तिबुद्ध्यविषयत्वात्।

ननु सर्वा बुद्धयः अस्तिनास्तिबुद्ध्यनुगता एव। तत्र एवं सति ज्ञेयम् अपि अस्तिबुद्ध्यनुगत-प्रत्ययविषयं वा स्याद् नास्तिबुद्ध्यनुगतप्रत्यय-विषयं वा स्यात्।

न, अतीन्द्रियत्वेन उभयबुद्ध्यनुगतप्रत्यया-विषयत्वात्।

यद् हि इन्द्रियगम्यं वस्तु घटादिकं तद् अस्तिबुद्ध्यनुगतप्रत्ययविषयं

वा

स्याद् नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्।

इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाण-गम्यत्वाद् न घटादिवद् उभयबुद्ध्यनुगत-प्रत्ययविषयम् इति अतो न सत् तद् न असद् इति उच्यते।

यत् तु उक्तं विरुद्धम् उच्यते ज्ञेयं तद् न सत् तद् न असद् उच्यते इति। न विरुद्धम्। “अन्यदेव

तद्विदितादथो

अविदितादधि” (के0 उ0 1। 3) इति श्रुतेः।

श्रुतिः अपि विरुद्धार्था इति चेद् यथा यज्ञाय शालाम् आरभ्य “को हि तद् वेद यद्यमुष्मिँल्लोकेऽस्ति वा न वेति” (तै0 सं0 6। 1। 1) एवम् इति चेत्।

न, विदिताविदिताभ्याम् अन्यत्वश्रुतेः अवश्यविज्ञेयार्थप्रतिपादनपरत्वात्। “यद्यमुष्मिन्” इत्यादि तु विधिशेषः अर्थवादः।

उपपत्तेः च सदसदादिशब्दैः ब्रह्म न उच्यते इति। सर्वो हि शब्दः अर्थप्रकाशनाय प्रयुक्तः श्रूयमाणः च श्रोतृभिः जातिक्रिया-गुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षः अर्थं प्रत्याययति। न अन्यथा अदृष्टत्वात्।

तद् यथा गौः अश्व इति वा जातितः, पचति पठति इति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा सम्बन्धतः।

न तु ब्रह्म जातिमद् अतो न सदादिशब्द-वाच्यं न अपि गुणवद् येन गुणशब्देन उच्येत निर्गुणत्वाद् न अपि क्रियाशब्दवाच्यं निष्क्रियत्वात्। “निष्कलं निष्क्रियं शान्तम्” (श्वे0 उ0 6। 19) इति श्रुतेः।

न च सम्बन्धि एकत्वाद् अद्वयत्वाद् अविषयत्वाद् आत्मत्वात् च न केनचित् शब्देन उच्यते इति युक्तम् “यतो वाचो निवर्तन्ते” (तै0 उ0 2। 4। 9) इत्यादि श्रुतिभ्यः च॥ 12॥

हिन्दी

जो जाननेयोग्य है उसको भली प्रकार यथार्थ रूपसे कहूँगा।

वह ज्ञेय कैसे फलवाला है? यह बात, श्रोतामें रुचि उत्पन्न करके उसे सम्मुख करनेके लिये कहते हैं—

जिस जाननेयोग्य (परमात्माके स्वरूप)-को जानकर (मनुष्य) अमृतको अर्थात् अमरभावको लाभ कर लेता है, फिर नहीं मरता।

वह ज्ञेय अनादिमत् है। जिसकी आदि हो वह आदिमत् और जो आदिमत् न हो वह अनादिमत् कहलाता है। वह कौन है? वही परम—निरतिशय ब्रह्म जो कि इस प्रकरणमें ज्ञेयरूपसे वर्णित है।

यहाँ कई एक टीकाकार “अनादि” “मत्परम्” इस प्रकार पदच्छेद करते हैं। (कारण यह बतलाते हैं कि) बहुव्रीहि समासद्वारा बतलाये हुए अर्थमें “मतुप्” प्रत्ययके प्रयोगकी निरर्थकता है, अतः वह अनिष्ट है।

वे (टीकाकार ऐसा पदच्छेद करके) अलग अर्थ भी दिखाते हैं कि “मैं वासुदेव कृष्ण ही जिसकी परम शक्ति हूँ वह ज्ञेय मत्पर है।”

ठीक है, यदि उपर्युक्त अर्थ सम्भव होता तो ऐसा पदच्छेद करनेसे पुनरुक्तिके दोषका निवारण हो सकता था, परंतु यह अर्थ ही सम्भव नहीं है; क्योंकि यहाँ ब्रह्मका स्वरूप “न सत्तन्नासदुच्यते” आदि वचनोंसे सर्व विशेषणोंके प्रतिषेधद्वारा ही बतलाना इष्ट है।

ज्ञेयको किसी विशेष शक्तिवाला बतलाना और विशेषणोंका प्रतिषेध भी करते जाना यह परस्परविरुद्ध है। सुतरां (यही समझना चाहिये कि) मतुप् प्रत्ययका और बहुव्रीहि समासका समान अर्थ होनेपर भी यहाँ श्लोकपूर्तिके लिये यह प्रयोग किया गया है।

“जिसका फल अमृतत्व है ऐसा ज्ञेय मेरे द्वारा कहा जाता है” इस कथनसे रुचि उत्पन्न कर (अर्जुनको) सम्मुख करके कहते हैं—

उस ज्ञेयको न सत् कहा जा सकता है और न असत् ही कहा जा सकता है।

पू0—कटिबद्ध होकर बड़े गम्भीर स्वरसे यह घोषणा करके कि “मैं ज्ञेय वस्तुको भली प्रकार बतलाऊँगा” फिर यह कहना कि “वह न सत् कहा जा सकता है और न असत् ही” उस घोषणाके अनुरूप नहीं है।

उ0—यह नहीं, भगवान्का कहना तो प्रतिज्ञाके अनुरूप ही है; क्योंकि वाणीका विषय न होनेके कारण सब उपनिषदोंमें भी ज्ञेय ब्रह्म “ऐसा नहीं, ऐसा नहीं” “स्थूल नहीं, सूक्ष्म नहीं” इस प्रकार विशेषोंके प्रतिषेधद्वारा ही लक्ष्य कराया गया है, ऐसा नहीं कहा गया कि वह ज्ञेय अमुक है।

पू0—जो वस्तु “अस्ति” शब्दसे नहीं कही जा सकती, वह है भी नहीं। यदि ज्ञेय “अस्ति” शब्दसे नहीं कहा जा सकता तो वह भी वास्तवमें नहीं है। फिर यह कहना अति विरुद्ध है कि वह “ज्ञेय” है और “अस्ति” शब्दसे नहीं कहा जा सकता।

उ0—वह (ब्रह्म) नहीं है, सो नहीं; क्योंकि वह “नहीं है” इस ज्ञानका भी विषय नहीं है।

पू0—सभी ज्ञान “अस्ति” या “नास्ति” इन बुद्धियोंमेंसे ही किसी एकके अनुगत होते हैं। इसलिये ज्ञेय भी या तो “अस्ति” ज्ञानसे अनुगत प्रतीतिका विषय होगा या “नास्ति” ज्ञानसे अनुगत प्रतीतिका विषय होगा।

उ0—यह बात नहीं है। क्योंकि वह ब्रह्म इन्द्रियोंसे अगोचर होनेके कारण दोनों प्रकारके ही ज्ञानसे अनुगत प्रतीतिका विषय नहीं है।

इन्द्रियोंद्वारा जाननेमें आनेवाले जो कोई घट आदि पदार्थ होते हैं, वे ही या तो “अस्ति” इस ज्ञानसे अनुगत प्रतीतिके या “नास्ति” इस ज्ञानसे अनुगत प्रतीतिके विषय होते हैं।

परंतु यह ज्ञेय (ब्रह्म) इन्द्रियातीत होनेके कारण केवल एक शब्दप्रमाणसे ही प्रमाणित हो सकता है, इसलिये घट आदि पदार्थोंकी भाँति यह “है” “नहीं है” इन दोनों प्रकारके ही ज्ञानोंके अनुगत प्रतीतिका विषय नहीं है, सुतरां वह न तो सत् कहा जा सकता है और न असत् ही कहा जा सकता है।

तथा तुमने जो यह कहा कि ज्ञेय है किंतु वह न सत् कहा जाता है और न असत् कहा जाता है, यह कहना विरुद्ध है, सो विरुद्ध नहीं है; क्योंकि “वह ब्रह्म जाने हुएसे और न जाने हुएसे भी अन्य है” इस श्रुतिप्रमाणसे यह बात सिद्ध है।

पू0—यदि यह श्रुति भी विरुद्ध अर्थवाली हो तो? अर्थात् जैसे यज्ञके लिये यज्ञशाला बनानेका विधान करके वहाँ कहा है कि “उस बातको कौन जानता है कि परलोकमें यह सब है या नहीं” इस श्रुतिके समान यह श्रुति भी विरुद्धार्थयुक्त हो तो?

उ0—यह बात नहीं है; क्योंकि यह जाने हुएसे और न जाने हुएसे विलक्षणत्व प्रतिपादन करनेवाली श्रुति निस्सन्देह अवश्य ही ज्ञेय पदार्थका होना प्रतिपादन करनेवाली है और “यह सब परलोकमें है या नहीं” इत्यादि श्रुति-वाक्य विधिके अन्तका अर्थवाद है (अतः उसके साथ इसकी समानता नहीं हो सकती)।

युक्तिसे भी यह बात सिद्ध है कि ब्रह्म सत्-असत् आदि शब्दोंद्वारा नहीं कहा जा सकता; क्योंकि अर्थका प्रकाश करनेके लिये वक्ताद्वारा बोले जानेवाले और श्रोताद्वारा सुने जानेवाले सभी शब्द जाति, क्रिया, गुण और सम्बन्धद्वारा संकेत ग्रहण करवाकर ही अर्थकी प्रतीति कराते हैं, अन्य प्रकारसे नहीं। कारण, अन्य प्रकारसे प्रतीति होती नहीं देखी जाती।

जैसे गौ या घोड़ा यह जातिसे, पकाना या पढ़ना यह क्रियासे, सफेद या काला यह गुणसे और धनवान् या गौओंवाला यह सम्बन्धसे (जाने जाते हैं। इसी तरह सबका ज्ञान होता है)।

परंतु ब्रह्म जातिवाला नहीं है, इसलिये सत् आदि शब्दोंद्वारा नहीं कहा जा सकता; निर्गुण होनेके कारण वह गुणवान् भी नहीं है, जिससे कि गुणवाचक शब्दोंसे कहा जा सके और क्रियारहित होनेके कारण क्रियावाचक शब्दोंसे भी नहीं कहा जा सकता। “ब्रह्म कलारहित, क्रियारहित और शान्त है” इस श्रुतिसे भी यही बात सिद्ध होती है।

तथा एक, अद्वितीय, इन्द्रियोंका अविषय और आत्मरूप होनेके कारण (वह ब्रह्म) किसीका सम्बन्धी भी नहीं है। अतः यह कहना उचित ही है कि ब्रह्म किसी भी शब्दसे नहीं कहा जा सकता। “जहाँसे वाणी निवृत्त हो जाती है” इत्यादि श्रुति-प्रमाणोंसे भी यही बात सिद्ध होती है॥ 12॥

13
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ 13॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

सच्छब्दप्रत्ययाविषयत्वाद् असत्त्वाशङ्कायां ज्ञेयस्य

सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्कानिवृत्त्यर्थम् आह—

हिन्दी

वह “ज्ञेय” सत् शब्दद्वारा होनेवाली प्रतीतिका विषय नहीं है, इससे उसके न होनेकी आशङ्का होनेपर उस आशङ्काकी निवृत्तिके लिये, समस्त प्राणियोंकी इन्द्रियादि उपाधियोंद्वारा उस ज्ञेयके अस्तित्वका प्रतिपादन करते हुए कहते हैं—

भाष्य
18 paragraphs · खोलें
संस्कृत

सर्वतःपाणिपादं सर्वतः पाणयः पादाः च अस्य इति सर्वतःपाणिपादं तद् ज्ञेयम्।

सर्वप्राणिकरणोपाधिभिः

क्षेत्रज्ञास्तित्वं विभाव्यते। क्षेत्रज्ञः च क्षेत्रोपाधित उच्यते। क्षेत्रं च पाणिपादादिभिः अनेकधा भिन्नम्।

क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्या एव क्षेत्रज्ञस्य इति तदपनयनेन ज्ञेयत्वम् उक्तम् “न सत्तन्नासदुच्यते” इति।

उपाधिकृतं मिथ्यारूपम् अपि अस्तित्वाधि-गमाय

ज्ञेयधर्मवद्

परिकल्प्य

उच्यते सर्वतःपाणिपादम् इत्यादि।

तथा

हि

सम्प्रदायविदां

वचनम्— “अध्यारोपापवादाभ्यां

निष्प्रपञ्चं

प्रपञ्च्यते” इति।

सर्वत्र

सर्वदेहावयवत्वेन

गम्यमानाः पाणिपादादयो ज्ञेयशक्तिसद्भावनिमित्तस्वकार्या इति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्य इति उपचारत उच्यन्ते। तथा व्याख्येयम् अन्यत्।

सर्वतःपाणिपादं तद् ज्ञेयम्। सर्वतोऽक्षि-शिरोमुखं सर्वत्र अक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियं तद् यस्य तत् श्रुतिमद् लोके प्राणिनिकाये सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते॥ 13॥

हिन्दी

वह ज्ञेय सब ओर हाथ-पैरवाला है अर्थात् उसके हाथ-पैर सर्वत्र फैले हुए हैं।

सब प्राणियोंकी इन्द्रियरूप उपाधियोंद्वारा क्षेत्रज्ञका अस्तित्व प्रकट होता है। क्षेत्ररूप उपाधिके कारण ही वह ज्ञेय क्षेत्रज्ञ कहा जाता है। क्षेत्ररूप उपाधि हाथ, पैर आदि भेदसे अनेक प्रकार विभक्त है।

वास्तवमें, क्षेत्रकी उपाधियोंके भेदसे किये हुए समस्त भेद क्षेत्रज्ञमें मिथ्या ही हैं, अतः उनको हटाकर ज्ञेयका स्वरूप “वह न सत् कहा जा सकता है और न असत् ही कहा जा सकता है” ऐसे बतलाया गया है।

तथा ज्ञेयका अस्तित्व समझानेके लिये उपाधिकृत मिथ्यारूपको भी उसके धर्मकी भाँति कल्पना करके उसको “सब ओरसे हाथ-पैरवाला” है, इत्यादि प्रकारसे बतलाया जाता है।

सम्प्रदाय-परम्पराको जाननेवालोंका भी यही कहना है कि “अध्यारोप और अपवादद्वारा प्रपञ्चरहित परमात्माकी व्याख्या की जाती है।”

सर्वत्र अर्थात् सब शरीरोंके अंगरूपसे स्थित हाथ, पैर आदि इन्द्रियाँ ज्ञेय शक्तिकी सत्तासे ही स्वकार्यमें समर्थ हो रही हैं, अतः ये सब ज्ञेयकी सत्ताके चिह्न होनेके कारण उपचारसे ज्ञेयके (धर्म) कहे जाते हैं। ऐसे ही और सबकी भी व्याख्या कर लेनी चाहिये।

वह ज्ञेय सब ओर हाथ-पैरवाला है तथा सब ओर नेत्र, सिर और मुखवाला है—जिसके आँख, सिर और मुख सर्वत्र हों, वह सर्वतोऽक्षिशिरोमुख कहलाता है तथा वह सब ओर कानवाला है—जिसके श्रुति अर्थात् श्रवणेन्द्रिय हो वह श्रुतिमत् (कानवाला) कहा जाता है। इस लोकमें—समस्त प्राणिसमुदायमें वह सबको व्याप्त करके स्थित है॥ 13॥

14
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥ 14॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणाद् ज्ञेयस्य तद्वत्ताशङ्का मा भूद् इति एवमर्थः श्लोकारम्भः—

हिन्दी

उपाधिरूप हाथ, पैर आदि इन्द्रियोंके अध्यारोपसे किसीको ऐसी शङ्का न हो कि ज्ञेय उन उपाधियोंवाला है, इस अभिप्रायसे यह श्लोक कहते हैं—

भाष्य
17 paragraphs · खोलें
संस्कृत

सर्वेन्द्रियगुणाभासं

सर्वाणि

तानि इन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रिया-ख्यानि अन्तःकरणे च बुद्धिमनसी ज्ञेयोपाधि-त्वस्य

तुल्यत्वात्

सर्वेन्द्रियग्रहणेन गृह्यन्ते। अपि च अन्तःकरणोपाधिद्वारेण एव श्रोत्रादीनाम् अपि उपाधित्वम् इति।

अतः

अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैः

अध्यवसायसङ्कल्पश्रवण-वचनादिभिः अवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैः व्यापृतम् इव तद् ज्ञेयम् इत्यर्थः।

“ध्यायतीव लेलायतीव” (बृ0 उ0 4। 3। 7) इति श्रुतेः।

कस्मात् पुनः कारणाद् न व्यापृतम् एव इति गृह्यते इति अत आह—

सर्वेन्द्रियविवर्जितं सर्वकरणरहितम् इत्यर्थः। अतो न करणव्यापारैः व्यापृतं तद् ज्ञेयम्।

यः तु अयं मन्त्रः—“अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” (श्वे0 उ0 3। 19) इत्यादिः स सर्वेन्द्रियोपाधिगुणानुगुण्य-भजनशक्तिमत् तद् ज्ञेयम् इति एवं प्रदर्शनार्थो न तु साक्षाद् एव जवनादिक्रियावत्त्व-प्रदर्शनार्थः।

“अन्धो मणिमविन्दत” (तै0 आ0 1। 11) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्य अर्थः।

यस्मात् सर्वकरणवर्जितं ज्ञेयं तस्माद् असक्तं सर्वसंश्लेषवर्जितम्।

यद्यपि एवं तथापि सर्वभृत् च एव। सदास्पदं हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात्। न हि मृगतृष्णिकादयः अपि निरास्पदा भवन्ति। अतः सर्वभृत् सर्वं बिभर्ति इति।

स्याद् इदं च अन्यद् ज्ञेयस्य सत्त्वाधिगम-द्वारं निर्गुणं सत्त्वरजस्तमांसि गुणाः तैः वर्जितं तद् ज्ञेयं तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःख-मोहाकारपरिणतानां भोक्तृ च उपलब्धृ तद् ज्ञेयम् इत्यर्थः॥ 14॥

हिन्दी

वह ज्ञेय समस्त इन्द्रियोंके गुणोंसे अवभासित (प्रतीत) होनेवाला है। यहाँ श्रोत्रादि ज्ञानेन्द्रियाँ, वाक् आदि कर्मेन्द्रियाँ तथा मन और बुद्धि ये दोनों अन्तःकरण—इन सबका सर्व इन्द्रियोंके नामसे ग्रहण है; क्योंकि अन्तःकरण भी ज्ञेयकी उपाधिके रूपमें अन्य इन्द्रियोंके समान ही है, बल्कि श्रोत्रादिका भी उपाधित्व अन्तःकरणरूप उपाधिके द्वारा ही है।

इसलिये यह अभिप्राय है कि उपाधिरूप अन्तः-करण और बाह्यकरण, इन सभी इन्द्रियोंके गुण जो निश्चय, संकल्प, श्रवण और भाषण आदि हैं, उनके द्वारा वह ज्ञेय प्रतिभासित होता है अर्थात् उन इन्द्रियोंकी क्रियासे वह क्रियावान्-सा दिखलायी देता है।

“ध्यान करता हुआ-सा, चेष्टा करता हुआ-सा” इस श्रुतिसे भी यही सिद्ध होता है।

तो फिर उस ज्ञेयको स्वयं क्रिया करनेवाला ही क्यों नहीं मान लिया जाता? इसपर कहते हैं—

वह ज्ञेय समस्त इन्द्रियोंसे रहित है अर्थात् सब करणोंसे रहित है। इसलिये वह इन्द्रियोंके व्यापारसे (वास्तवमें) व्यापारवाला नहीं होता।

यह जो मन्त्र है कि “वह (ईश्वर) बिना पैर और हाथके चलता और ग्रहण करता है, बिना चक्षुके देखता और बिना कानोंके सुनता है” सो इस अभिप्रायको दिखानेके लिये है कि वह ज्ञेय समस्त इन्द्रियरूप उपाधियोंके गुणोंकी अनुरूपता प्राप्त करनेमें समर्थ है, उसे साक्षात् गमनादि क्रियाओंसे युक्त बतलानेके लिये यह मन्त्र नहीं है।

“अन्धेने मणि प्राप्त की” इत्यादि मन्त्रोंके अर्थकी भाँति उस मन्त्रका अर्थ है!

वह ज्ञेय समस्त इन्द्रियोंसे रहित है, इसलिये संगरहित है अर्थात् सब प्रकारके सम्बन्धोंसे रहित है।

यद्यपि यह बात है तो भी वह ज्ञेय सबको धारण करनेवाला है। सद्बुद्धि सर्वत्र व्याप्त है, अतः सत् ही सबका अधिष्ठान है। मृगतृष्णिकादि मिथ्या पदार्थ भी बिना अधिष्ठानके नहीं होते, इसलिये वह ज्ञेय सबका धारण करनेवाला है।

उस ज्ञेयकी सत्ताको बतलानेवाला यह दूसरा साधन भी है। वह ज्ञेय निर्गुण यानी सत्त्व, रज और तम—इन तीनों गुणोंसे अतीत है तो भी गुणोंका भोक्ता है अर्थात् वह ज्ञेय सुख-दुःख और मोहके रूपमें परिणत हुए तीनों गुणोंका शब्दादिद्वारा भोग करनेवाला— उन्हें उपलब्ध करनेवाला है॥ 14॥

15
बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥ 15॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
7 paragraphs · खोलें
संस्कृत

बहिः त्वक्पर्यन्तं देहम् आत्मत्वेन अविद्या-कल्पितम् अपेक्ष्य तम् एव अवधिं कृत्वा बहिः उच्यते। तथा प्रत्यगात्मानम् अपेक्ष्य देहम् एव अवधिं कृत्वा अन्तः उच्यते।

बहिः अन्तः च इति उक्ते मध्ये अभावे प्राप्ते इदम् उच्यते—

अचरं चरम् एव च यत् चराचरं देहाभासम् अपि तद् एव ज्ञेयं यथा रज्जुसर्पाभासः।

यदि अचरं चरम् एव च व्यवहारविषयं सर्वं ज्ञेयं किमर्थम् इदम् इति सर्वैः न विज्ञेयम्, इति उच्यते—

सत्यम्, सर्वाभासं तत् तथापि व्योमवत् सूक्ष्मम् अतः सूक्ष्मत्वात् स्वेन रूपेण तद् ज्ञेयम् अपि अविज्ञेयम् अविदुषाम्।

विदुषां तु “आत्मैवेदं सर्वम्” (छा0 उ0 7। 25। 2) “ब्रह्मैवेदं सर्वम्” (बृह0 उ0 2। 5। 1) इत्यादिप्रमाणतो नित्यं विज्ञातम्—

अविज्ञाततया दूरस्थं वर्षसहस्त्रकोट्यापि अविदुषाम् अप्राप्यत्वाद् अन्तिके च तद् आत्मत्वाद् विदुषाम्॥ 15॥

हिन्दी

अविद्याद्वारा आत्मभावसे कल्पित शरीरको त्वचापर्यन्त अवधि मानकर उसीकी अपेक्षासे ज्ञेयको उसके बाहर बतलाते हैं। वैसे ही अन्तरात्माको लक्ष्य करके तथा शरीरको ही अवधि मानकर ज्ञेयको उसके भीतर (व्याप्त) बतलाया जाता है।

बाहर और भीतर व्याप्त है—ऐसा कहनेसे मध्यमें उसका अभाव प्राप्त हुआ, इसलिये कहते हैं—

चर और अचररूप भी वही है अर्थात् रज्जुमें सर्पकी भाँति प्रतीत होनेवाले जो चर-अचररूप शरीरके आभास हैं, वह भी उस ज्ञेयका ही स्वरूप है।

यदि चर और अचररूप समस्त व्यवहारका विषय वह ज्ञेय (परमात्मा) ही है, तो फिर वह “यह है” इस प्रकार सबसे क्यों नहीं जाना जा सकता? इसपर कहते हैं—

ठीक है, सारा दृश्य उसीका स्वरूप है, तो भी वह ज्ञेय आकाशकी भाँति अति सूक्ष्म है। अतः यद्यपि वह आत्मरूपसे ज्ञेय है, तो भी सूक्ष्म होनेके कारण अज्ञानियोंके लिये अविज्ञेय ही है।

ज्ञानी पुरुषोंके लिये तो, “यह सब कुछ आत्मा ही है” “यह सब कुछ ब्रह्म ही है” इत्यादि प्रमाणोंसे वह सदा ही प्रत्यक्ष रहता है।

वह ज्ञेय अज्ञात होनेके कारण और हजारों-करोड़ों वर्षोंतक भी प्राप्त न हो सकनेके कारण अज्ञानियोंके लिये बहुत दूर है, किंतु ज्ञानियोंका तो वह आत्मा ही है; अतः उनके निकट ही है॥ 15॥

16
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥ 16॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
संस्कृत

अविभक्तं च प्रतिदेहं व्योमवत् तद् एकं भूतेषु सर्वप्राणिषु विभक्तम् इव च स्थितं देहेषु एव विभाव्यमानत्वात्।

भूतभर्तृ च भूतानि बिभर्ति इति तद् ज्ञेयं भूतभर्तृ च स्थितिकाले। प्रलयकाले ग्रसिष्णु ग्रसनशीलम्। उत्पत्तिकाले प्रभविष्णु

च प्रभवनशीलम्। यथा रज्ज्वादिः सर्पादेः मिथ्याकल्पितस्य॥ 16॥

हिन्दी

वह ज्ञेय प्रत्येक शरीरमें आकाशके समान अविभक्त और एक है। तो भी समस्त प्राणियोंमें विभक्त हुआ-सा स्थित है; क्योंकि उसकी प्रतीति शरीरोंमें ही हो रही है।

तथा वह ज्ञेय स्थितिकालमें भूतभर्तृ—भूतोंका धारण-पोषण करनेवाला, प्रलयकालमें ग्रसिष्णु— सबका संहार करनेवाला और उत्पत्तिके समय प्रभविष्णु— सबको उत्पन्न करनेवाला है, जैसे कि मिथ्याकल्पित सर्पादिके (उत्पत्ति, स्थिति और नाशके कारण) रज्जु आदि होते हैं॥ 16॥

17
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥ 17॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च सर्वत्र विद्यमानं सद् न उपलभ्यते चेद् ज्ञेयं तमः तर्हि। न किं तर्हि—

हिन्दी

यदि सर्वत्र विद्यमान होते हुए भी ज्ञेय प्रत्यक्ष नहीं होता, तो क्या वह अन्धकार है? नहीं। तो क्या है—

भाष्य
9 paragraphs · खोलें
संस्कृत

ज्योतिषाम् आदित्यानाम् अपि तद् ज्ञेयं ज्योतिः। आत्मचैतन्यज्योतिषा इद्धानि हि आदित्यादीनि ज्योतींषि दीप्यन्ते।

“येन सूर्यस्तपति तेजसेद्धः” “तस्य भासा सर्वमिदं विभाति” (श्वे0 उ0 6। 14) इत्यादिश्रुतिभ्यः। स्मृतेः च इह एव “यदादित्यगतं तेजः” इत्यादेः।

तमसः अज्ञानात् परम् अस्पृष्टम् उच्यते।

ज्ञानादेः दुःसम्पादनबुद्ध्या प्राप्तावसादस्य उत्तम्भनार्थम् आह—

ज्ञानम्

अमानित्वादि।

ज्ञेयम्

“ज्ञेयं यत्तत्प्रवक्ष्यामि” इत्यादिना उक्तम् ज्ञानगम्यं ज्ञेयम् एव ज्ञातं सद् ज्ञानफलम् इति ज्ञानगम्यम् उच्यते। ज्ञायमानं तु ज्ञेयम्।

तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम्। तत्र एव हि त्रयं विभाव्यते॥ 17॥

हिन्दी

वह ज्ञेय (परमात्मा) समस्त सूर्यादि ज्योतियोंका भी परम ज्योति है; क्योंकि आत्मचैतन्यके प्रकाशसे देदीप्यमान होकर ही ये सूर्य आदि समस्त ज्योतियाँ प्रकाशित हो रही हैं।

“जिस तेजसे प्रदीप्त होकर सूर्य तपता है” “उसीके प्रकाशसे यह सब कुछ प्रकाशित है” इत्यादि श्रुतिप्रमाणोंसे और यहीं कहे हुए “यदादित्यगतं तेजः” इत्यादि स्मृतिवाक्योंसे भी उपर्युक्त बात ही सिद्ध होती है।

तथा वह ज्ञेय अन्धकारसे—अज्ञानसे परे अर्थात् अस्पृष्ट बतलाया जाता है।

ज्ञान आदिका सम्पादन करना बहुत दुर्घट है— ऐसी बुद्धिसे उत्साहरहित—खिन्नचित्त हुए साधकको उत्साहित करनेके लिये कहते हैं—

ज्ञान अर्थात् अमानित्व आदि ज्ञानके साधन, ज्ञेय अर्थात् “ज्ञेयं यत्तत्प्रवक्ष्यामि” इत्यादि वाक्योंसे बतलाया हुआ परमात्माका स्वरूप और ज्ञानगम्य—ज्ञेय ही जान लिया जानेपर ज्ञानका फल होनेके कारण (पहले) ज्ञानगम्य कहा जाता है और जब जान लिया जाता है उस अवस्थामें ज्ञेय कहलाता है।

ये तीनों ही समस्त प्राणिमात्रके अन्तःकरणमें विशेषरूपसे स्थित हैं; क्योंकि ये तीनों वहीं प्रकाशित होते हैं॥ 17॥

18
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥ 18॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

यथोक्तार्थोपसंहारार्थः

अयं

श्लोक आरभ्यते—

हिन्दी

उपर्युक्त समस्त अर्थका उपसंहार करनेके लिये यह श्लोक आरम्भ किया जाता है—

भाष्य
संस्कृत

इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च “ज्ञेयं यत्तत्” इत्यादि “तमसः परमुच्यते” इत्येवमन्तम् उक्तं समासतः सङ्क्षेपतः।

एतावान् सर्वो हि वेदार्थो गीतार्थः च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते—

मद्भक्तो मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावो यत् पश्यति शृणोति स्पृशति वा सर्वम् एव भगवान् वासुदेव इति एवं ग्रहाविष्टबुद्धिः मद्भक्तः।

स एतद् यथोक्तं सम्यग्दर्शनं विज्ञाय मद्भावाय मम भावो मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति॥ 18॥

हिन्दी

इस प्रकार यह महाभूतोंसे लेकर धृतिपर्यन्त क्षेत्रका स्वरूप, “अमानित्व” आदिसे लेकर “तत्त्वज्ञानार्थदर्शन” पर्यन्त ज्ञानका स्वरूप और “ज्ञेयं यत्तत्” यहाँसे लेकर “तमसः परमुच्यते” यहाँतक ज्ञेयका स्वरूप, संक्षेपसे कह दिया गया।

यह सब वेदोंका और गीताका अर्थ इकट्ठा करके कहा गया है। इस यथार्थ ज्ञानका अधिकारी कौन है, सो कहा जाता है—

मेरा भक्त अर्थात् मुझ सर्वज्ञ, परमगुरु, वासुदेव परमेश्वरमें अपने सारे भावोंको जिसने अर्पण कर दिया है। जिस किसी भी वस्तुको देखता, सुनता और स्पर्श करता है, उस सबमें “सब कुछ भगवान् वासुदेव ही है” ऐसी निश्चित बुद्धिवाला जो मेरा भक्त है।

वह उपर्युक्त यथार्थ ज्ञानको समझकर मेरे भावको अर्थात् मेरा जो परमात्मभाव है, उसको प्राप्त करनेमें समर्थ होता है, अर्थात् मोक्ष-लाभ कर लेता है॥ 18॥

19
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥ 19॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे। एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानाम् इति अयम् अर्थः अधुना उच्यते—

हिन्दी

सातवें अध्यायमें ईश्वरकी क्षेत्र और क्षेत्रज्ञरूप अपरा और परा—दो प्रकृतियाँ बतलायी गयी हैं तथा यह भी कहा गया है कि ये दोनों प्रकृतियाँ समस्त प्राणियोंकी योनि (कारण) हैं। अब यह बात बतलायी जाती है कि वे क्षेत्र और क्षेत्रज्ञरूप दोनों प्रकृतियाँ सब भूतोंकी योनि किस प्रकार हैं—

भाष्य
12 paragraphs · खोलें
संस्कृत

प्रकृतिं पुरुषं च एव ईश्वरस्य प्रकृती तौ प्रकृतिपुरुषौ उभौ अपि अनादी विद्धि। न विद्यते आदिः ययोः तौ अनादी।

नित्येश्वरत्वाद् ईश्वरस्य तत्प्रकृत्योः अपि युक्तं नित्यत्वेन भवितुम्। प्रकृतिद्वयवत्वम् एव हि ईश्वरस्य ईश्वरत्वम्।

याभ्यां प्रकृतिभ्याम् ईश्वरो जगदुत्पत्ति-स्थितिप्रलयहेतुः ते द्वे अनादी सत्यौ संसारस्य कारणम्।

न आदी अनादी इति तत्पुरुषसमासं केचिद् वर्णयन्ति। तेन हि किल ईश्वरस्य कारणत्वं सिध्यति। यदि पुनः प्रकृतिपुरुषौ एव नित्यौ स्यातां तत्कृतम् एव जगद् न ईश्वरस्य जगतः कर्तृत्वम्।

तद् असत्, प्राक् प्रकृतिपुरुषयोः उत्पत्तेः ईशितव्याभावाद् ईश्वरस्य अनीश्वरत्वप्रसङ्गात्।

संसारस्य निर्निमित्तत्वे अनिर्मोक्षत्वप्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गाद् बन्धमोक्षाभावप्रसङ्गात् च।

नित्यत्वे पुनः ईश्वरस्य प्रकृत्योः सर्वम् एतद् उपपन्नं भवेत्।

कथम्—

विकारान् च गुणान् च एव वक्ष्यमाणान् विकारान् बुद्ध्यादिदेहेन्द्रियान् तान् गुणान् च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसम्भवान्।

प्रकृतिः

ईश्वरस्य

विकारकारणशक्तिः त्रिगुणात्मिका माया सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणान् च विद्धि प्रकृतिसम्भवान् प्रकृतिपरिणामान्॥ 19॥

हिन्दी

प्रकृति और पुरुष जो कि ईश्वरकी प्रकृतियाँ हैं, उन दोनोंको ही तू अनादि जान। जिनका आदि न हो उनका नाम अनादि है।

ईश्वरका ईश्वरत्व नित्य होनेके कारण उसकी दोनों प्रकृतियोंका भी नित्य होना उचित ही है; क्योंकि इन दोनों प्रकृतियोंसे युक्त होना ही ईश्वरकी ईश्वरता है।

जिन दोनों प्रकृतियोंद्वारा ईश्वर जगत्की उत्पत्ति, स्थिति और प्रलयका कारण है, वे दोनों अनादिसिद्ध ही संसारकी कारण हैं।

कोई-कोई टीकाकार “जो आदि (कारण) नहीं हैं वे अनादि कहे जाते हैं, इस प्रकार यहाँ तत्पुरुष-समासका वर्णन करते हैं (और कहते हैं कि) इससे केवल ईश्वर ही जगत्का कारण है, यह बात सिद्ध होती है। यदि प्रकृति और पुरुषको नित्य माना जाय तो संसार उन्हींका रचा हुआ माना जायगा, ईश्वर जगत्का कर्ता सिद्ध न होगा।”

किंतु ऐसा मानना ठीक नहीं; क्योंकि (यदि प्रकृति और पुरुषको नित्य न माने तो) प्रकृति और पुरुषकी उत्पत्तिसे पूर्व शासन करने योग्य वस्तुका अभाव होनेसे ईश्वरमें अनीश्वरताका प्रसङ्ग आ जाता है।

तथा संसारको बिना निमित्तके उत्पन्न हुआ माननेसे उसके अन्तके अभावका प्रसङ्ग, शास्त्रकी व्यर्थताका प्रसङ्ग और बन्ध-मोक्षके अभावका प्रसङ्ग प्राप्त होता है, (इसलिये भी उपर्युक्त अर्थ ठीक नहीं है।)

परंतु ईश्वरकी इन दोनों प्रकृतियोंको नित्य मान लेनेसे यह सब व्यवस्था ठीक हो जाती है।

कैसे? (सो कहते हैं—)

विकारोंको और गुणोंको तू प्रकृतिसे उत्पन्न जान अर्थात् बुद्धिसे लेकर शरीर और इन्द्रियोंतक अगले श्लोकमें बतलाये हुए विकारोंको तथा सुख-दुःख और मोह आदि वृत्तियोंके रूपमें परिणत हुए तीनों गुणोंको तू प्रकृतिसे उत्पन्न हुए जान।

अभिप्राय यह है कि विकारोंकी कारणरूपा जो ईश्वरकी त्रिगुणमयी मायाशक्ति है, उसका नाम प्रकृति है। वह जिन विकारों और गुणोंको उत्पन्न करनेवाली है, उन विकारों और गुणोंको तू प्रकृतिजनित— प्रकृतिके ही परिणाम समझ॥ 19॥

20
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥ 20॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

के

पुनः

ते

विकारा

गुणाः

च प्रकृतिसम्भवाः—

हिन्दी

प्रकृतिसे उत्पन्न हुए वे विकार और गुण कौन-से हैं?—

भाष्य
17 paragraphs · खोलें
संस्कृत

कार्यकरणकर्तृत्वे कार्यं शरीरं करणानि तत्स्थानि त्रयोदश।

देहस्य आरम्भकाणि भूतानि विषयाः च प्रकृतिसम्भवा विकाराः पूर्वोक्ता इह कार्यग्रहणेन गृह्यन्ते, गुणाः च प्रकृतिसम्भवाः सुखदुःख-मोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते।

तेषां कार्यकरणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं तस्मिन् कार्यकरण-कर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिः उच्यते। एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः।

कार्यकारणकर्तृत्वे इति अस्मिन् अपि पाठे कार्यं यद् यस्य विपरिणामः तत् तस्य कार्यं विकारो विकारि कारणं तयोः विकार-विकारिणोः कार्यकारणयोः कर्तृत्वे इति।

अथवा षोडश विकाराः कार्यम्, सप्त प्रकृतिविकृतयः

कारणम्,

तानि

एव कार्यकारणानि उच्यन्ते। तेषां कर्तृत्वे हेतुः प्रकृतिः उच्यते आरम्भकत्वेन एव।

पुरुषः च संसारस्य कारणं यथा स्यात् तद् उच्यते—

पुरुषोः जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुः उच्यते।

कथं पुनः अनेन कार्यकरणकर्तृत्वेन सुख-दुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसार-कारणत्वम् उच्यते इति।

अत्र उच्यते। कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे पुरुषस्य चेतनस्य असति तदुपलब्धृत्वे कुतः संसारः स्यात्। यदा पुनः कार्यकरणरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेन अविद्यारूपः संयोगः स्यात् तदा संसारः स्याद् इति।

अतो यत् प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वम् उक्तं तद् युक्तम्।

कः पुनः अयं संसारो नाम,

सुखदुःखसम्भोगः संसारः पुरुषस्य च सुखदुःखानां

सम्भोक्तृत्वं

संसारित्वम् इति॥ 20॥

हिन्दी

कार्य शरीरको कहते हैं और उसमें स्थित (मन, बुद्धि, अहंकार तथा दस इन्द्रियाँ—ये) तेरह करण हैं। इनके कर्तापनमें (हेतु प्रकृति है)।

शरीरको उत्पन्न करनेवाले पाँच भूत और शब्द आदि पाँच विषय ये पहले कहे हुए प्रकृतिजन्य दस विकार तो यहाँ कार्यके ग्रहणसे ग्रहण किये जाते हैं और सुख-दुःख, मोह आदिके रूपमें परिणत हुए प्रकृतिजन्य समस्त गुण बुद्धि आदि करणोंके आश्रित होनेके कारण करणोंके ग्रहणसे ग्रहण किये जाते हैं।

“उन कार्य और करणोंका जो कर्तापन अर्थात् उनको उत्पन्न करनेका भाव है उसका नाम कार्यकरण-कर्तृत्व है, उन कार्यकरणोंके कर्तृत्वमें आरम्भ करनेवाली होनेसे प्रकृति कारण कही जाती है। इस प्रकार कार्यकरणोंको उत्पन्न करनेवाली होनेसे प्रकृति संसारकी कारण है।

“कार्यकारणकर्तृत्वे” ऐसा पाठ माननेसे भी यही अर्थ होगा कि जो जिसका परिणाम है, वह उसका कार्य अर्थात् विकार है और कारण विकारी—विकृत होनेवाला—है। उन विकारी और विकाररूप कारण और कार्योंके उत्पन्न करनेमें (प्रकृति हेतु है)।

अथवा सोलह विकार तो कार्य और सात प्रकृति-विकृति कारण हैं, इस प्रकार ये (तेईस तत्त्व) ही कार्यकारणके नामसे कहे जाते हैं। इनके कर्तापनमें प्रारम्भकत्वसे ही प्रकृति हेतु कही जाती है।

पुरुष भी जिस प्रकार संसारका कारण होता है, सो कहा जाता है—

पुरुष अर्थात् जीव, क्षेत्रज्ञ, भोक्ता इत्यादि जिसके पर्याय शब्द हैं, वह सुख-दुःख आदि भोगोंके भोक्तापनमें अर्थात् उनका उपभोग करनेमें हेतु कहा जाता है।

पू0—परंतु इस कार्यकरणके कर्तापनसे और सुख-दुःखके भोक्तापनसे प्रकृति और पुरुष दोनोंको संसारका कारण कैसे बतलाया जाता है?

उ0—कार्यकरण और सुख-दुःखादिरूप हेतु और फलके आकारमें प्रकृतिका परिणाम न होनेपर तथा चेतन पुरुषमें उन सबका भोक्तापन न होनेसे संसार कैसे सिद्ध होगा। जब कार्यकरणरूप हेतु और फलके आकारमें परिणत हुई भोग्यरूपा प्रकृतिके साथ उससे विपरीत धर्मवाले पुरुषका, भोक्ता भावसे अविद्यारूप संयोग होगा, तभी संसार (प्रतीत) होगा।

इसलिये प्रकृतिके कार्यकरणविषयक कर्तापन और पुरुषके सुख-दुःखविषयक भोक्तापनको लेकर जो उन दोनोंका संसार-कारणत्व प्रतिपादन किया गया, वह उचित ही है।

पू0—तो यह संसारनामक वस्तु क्या है?

उ0—सुख-दुःखोंका भोग ही संसार है और पुरुषमें जो सुख-दुःखोंका भोक्तृत्व है, यही उसका संसारित्व है॥ 20॥

21
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥ 21॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वम् इति उक्तं तस्य तत् किन्निमित्तम् इति उच्यते—

हिन्दी

यह जो कहा कि सुख-दुःखोंका भोक्तृत्व ही पुरुषका संसारित्व है, सो वह उसमें किस कारणसे है? यह बतलाते हैं—

भाष्य
13 paragraphs · खोलें
संस्कृत

पुरुषो भोक्ता प्रकृतिस्थः प्रकृतौ अविद्या-लक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः प्रकृतिम् आत्मत्वेन गत इति एतद् हि यस्मात् तस्माद् भुङ्क्ते उपलभते इत्यर्थः। प्रकृतिजान् प्रकृतितो जातान् सुखदुःख-मोहाकाराभिव्यक्तान् गुणान् सुखी दुःखी मूढः पण्डितः अहम् इति एवम्।

सत्याम् अपि अविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्मभावः संसारस्य स प्रधानं कारणं जन्मनः “स यथाकामो भवति तत्क्रतुर्भवति” (बृ0 उ0 4। 4। 5) इत्यादि श्रुतेः।

तद् एतद् आह कारणं हेतुः गुणसङ्गो गुणेषु सङ्गः अस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु।

सत्यः च असत्यः च योनयः सदसद्योनयः तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गः।

अथवा सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्ग इति संसारपदम् अध्याहार्यम्।

सद्योनयो

देवादियोनयः

असद्योनयः पश्वादियोनयः।

सामर्थ्यात्

सदसद्योनयो मनुष्ययोनयः अपि अविरुद्धा द्रष्टव्याः।

एतद् उक्तं भवति प्रकृतिस्थत्वाख्या अविद्या गुणेषु स सङ्गः कामः संसारस्य कारणम् इति। तत् च परिवर्जनाय उच्यते।

अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धम्।

तत् च ज्ञानं पुरस्ताद् उपन्यस्तं क्षेत्रक्षेत्रज्ञ-विषयम्। “यज्ज्ञात्वामृतमश्नुते” इति उक्तं च अन्यापोहेन अतद्धर्माध्यारोपेण च॥ 21॥

हिन्दी

क्योंकि पुरुष—जीवात्मा प्रकृतिमें स्थित है अर्थात् कार्य और करणके रूपमें परिणत हुई अविद्यारूपा प्रकृतिमें स्थित है—प्रकृतिको अपना स्वरूप मानता है, इसलिये वह प्रकृतिसे उत्पन्न हुए सुख-दुःख और मोहरूपसे प्रकट गुणोंको “मैं सुखी हूँ, दुःखी हूँ, मूढ़ हूँ, पण्डित हूँ” इस प्रकार मानता हुआ भोगता है अर्थात् उनका उपभोग करता है।

यद्यपि जन्मका कारण अविद्या है तो भी भोगे जाते हुए सुख-दुःख और मोहरूप गुणोंमें जो आसक्त हो जाना है—तद्रूप हो जाना है, वह जन्मरूप संसारका प्रधान कारण है। “वह जैसी कामनावाला होता है वैसा ही कर्म करता है” इस श्रुतिसे भी यही बात सिद्ध होती है।

इसी बातको भगवान् कहते हैं कि गुणोंका सङ्ग ही अर्थात् गुणोंमें जो आसक्ति है वही इस भोक्ता पुरुषके अच्छी-बुरी योनियोंमें जन्म लेनेका कारण है।

अच्छी और बुरी योनियोंका नाम सदसत् योनि है, उनमें जन्मोंका होना सदसद्योनिजन्म है, इन भोग्यरूप सदसद्योनिजन्मोंका कारण गुणोंका सङ्ग ही है।

अथवा संसारपदका अध्याहार करके यह अर्थ कर लेना चाहिये कि अच्छी और बुरी योनियोंमें जन्म लेकर गुणोंका सङ्ग करना ही इस संसारका कारण है।

देवादि योनियाँ सत् योनि हैं और पशु आदि योनियाँ असत् योनि हैं। प्रकरणकी सामर्थ्यसे मनुष्य-योनियोंको भी सत्-असत् योनियाँ माननेमें (किसी प्रकारका) विरोध नहीं समझना चाहिये।

कहनेका तात्पर्य यह है कि प्रकृतिमें स्थित होनारूप अविद्या और गुणोंका सङ्ग—आसक्ति ये ही दोनों संसारके कारण हैं और वे छोड़नेके लिये ही बतलाये गये हैं।

गीताशास्त्रमें इनकी निवृत्तिके साधन संन्यासके सहित ज्ञान और वैराग्य प्रसिद्ध हैं।

वह क्षेत्रक्षेत्रज्ञविषयक ज्ञान पहले बतलाया ही गया है। साथ ही (“न सत्तन्नासदुच्यते” इत्यादि कथनसे) अन्यों (धर्मों)-का निषेध करके और (“सर्वतः पाणिपादम्” इत्यादि कथनसे) अनात्म धर्मोंका अध्यारोप करके ज्ञेयके स्वरूपका भी “यज्ज्ञात्वामृतमश्नुते” आदि वचनोंसे प्रतिपादन किया गया है॥ 21॥

22
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः॥ 22॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

तस्य एव पुनः साक्षाद् निर्देशः क्रियते—

हिन्दी

उसीका फिर साक्षात् निर्देश किया जाता है—

भाष्य
25 paragraphs · खोलें
संस्कृत

उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयम् अव्यापृतो यथा

ऋत्विग्यजमानेषु

यज्ञकर्मव्यापृतेषु तटस्थः अन्यः अव्यापृतो यज्ञविद्याकुशल ऋत्विग्यजमानव्यापारगुणदोषाणाम्

ईक्षिता तद्वत् कार्यकरणव्यापारेषु अव्यापृतः अन्यो विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा।

अथवा देहचक्षुर्मनोबुद्ध्यात्मानो द्रष्टारः, तेषां बाह्यो द्रष्टा देहः, तत आरभ्य अन्तरतमः च प्रत्यक्समीप आत्मा द्रष्टा यतः परो अन्तरो न अस्ति द्रष्टा स अतिशयसामीप्येन द्रष्टृत्वाद् उपद्रष्टा स्यात्।

यज्ञोपद्रष्टृवद्

वा

सर्वविषयीकरणाद् उपद्रष्टा।

अनुमन्ता च अनुमोदनम् अनुमननं कुर्वत्सु तत्क्रियासु परितोषः तत्कर्ता अनुमन्ता च।

अथवा अनुमन्ता कार्यकरणप्रवृत्तिषु स्वयम् अप्रवृत्तः अपि प्रवृत्त इव तदनुकूलो विभाव्यते तेन अनुमन्ता।

अथवा प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिद् अपि न निवारयति इति अनुमन्ता।

भर्ता भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां

चैतन्यात्मपारार्थ्येन

निमित्तभूतेन चैतन्याभासानां

यत्

स्वरूपधारणं

तत् चैतन्यात्मकृतम् एव इति भर्ता आत्मा इति उच्यते।

भोक्ता अग्न्युष्णवद् नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषय-विषयाः

चैतन्यात्मग्रस्ता

इव

जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मा उच्यते।

महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वात् च महान् ईश्वरः च इति महेश्वरः।

परमात्मा देहादीनां बुद्ध्यन्तानां प्रत्यगात्म-त्वेन कल्पितानाम् अविद्यया परम उपद्रष्टृ-त्वादिलक्षण आत्मा इति परमात्मा।

“सोऽन्तः परमात्मा” इति अनेन शब्देन च अपि उक्तः कथितः श्रुतौ।

क्व असौ, अस्मिन् देहे पुरुषः परः अव्यक्तात्। “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति यो वक्ष्यमाणः “क्षेत्रज्ञं चापि मां विद्धि” इति उपन्यस्तो व्याख्याय उपसंहृतः च॥ 22॥

हिन्दी

(यह आत्मा) उपद्रष्टा है अर्थात् स्वयं क्रिया न करता हुआ पासमें स्थित होकर देखनेवाला है। जैसे कोई यज्ञविद्यामें कुशल अन्य पुरुष स्वयं यज्ञ न करता हुआ, यज्ञकर्ममें लगे हुए पुरोहित और यजमानोंद्वारा किये हुए कर्मसम्बन्धी गुण-दोषोंको तटस्थभावसे देखता है, उसी प्रकार कार्य और करणोंके व्यापारमें स्वयं न लगा हुआ उनसे अन्य—विलक्षण आत्मा उन व्यापारयुक्त कार्य और करणोंको समीपस्थभावसे देखनेवाला है।

अथवा देह, चक्षु, मन, बुद्धि और आत्मा—ये सभी द्रष्टा हैं, उनमें बाह्य द्रष्टा शरीर है और उससे लेकर उन सबकी अपेक्षा अन्तरतम—समीपस्थ द्रष्टा अन्तरात्मा है। जिसकी अपेक्षा और कोई आन्तरिक द्रष्टा न हो, वह अतिशय सामीप्यभावसे देखनेवाला होनेके कारण उपद्रष्टा होता है (अतः आत्मा उपद्रष्टा है)।

अथवा (यों समझो कि) यज्ञके उपद्रष्टाकी भाँति सबका अनुभव करनेवाला होनेसे आत्मा उपद्रष्टा है।

तथा यह अनुमन्ता है—क्रिया करनेमें लगे हुए अन्तःकरण और इन्द्रियादिकी क्रियाओंमें संतोषरूप अनुमोदनका नाम अनुमनन है, उसका करनेवाला है।

अथवा यह इसीलिये अनुमन्ता है कि कार्यकरणकी प्रवृत्तिमें स्वयं प्रवृत्त न होता हुआ भी उनके अनुकूल प्रवृत्त हुआ-सा दीखता है।

अथवा अपने व्यापारमें लगे हुए अन्तःकरण और इन्द्रियादिको उनका साक्षी होकर भी कभी निवारण नहीं करता, इसलिये अनुमन्ता है।

तथा यह भर्ता है, चैतन्यस्वरूप आत्माके भोग और अपवर्गकी सिद्धिके निमित्तसे संहत हुए चैतन्यके आभासरूप शरीर, इन्द्रिय, मन और बुद्धि आदिका स्वरूप धारण करना भी भरण है और वह चैतन्यरूप आत्माका ही किया हुआ है, इसलिये आत्माको भर्ता कहते हैं।

आत्मा भोक्ता है। अग्निके उष्णत्वकी भाँति नित्य-चैतन्य आत्मसत्तासे समस्त विषयोंमें पृथक्-पृथक् होनेवाली जो बुद्धिकी सुख-दुःख और मोहरूप प्रतीतियाँ हैं, वे सब चैतन्य आत्माद्वारा ग्रस्त की हुई-सी दीखती हैं, अतः आत्माको भोक्ता कहा जाता है।

आत्मा महेश्वर है। वह सबका आत्मा होनेके कारण और स्वतन्त्र होनेके कारण महान् ईश्वर है, इसलिये महेश्वर है।

वह परमात्मा है। अविद्याद्वारा प्रत्यक् आत्मारूप माने हुए जो शरीरसे लेकर बुद्धिपर्यन्त (आत्मशब्दवाच्य पदार्थ) हैं। उन सबसे उपद्रष्टा आदि लक्षणोंवाला आत्मा परम (श्रेष्ठ) है—इसलिये वह परमात्मा है।

श्रुतिमें भी “वह भीतर व्यापक परमात्मा है” इन शब्दोंसे उसका वर्णन किया गया है।

ऐसा आत्मा कहाँ है; वह अव्यक्तसे पर पुरुष इसी शरीरमें है जो कि “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इस प्रकार आगे कहा जायगा और जो “क्षेत्रज्ञं चापि मां विद्धि” इस प्रकार पहले कहा जा चुका है तथा जिसकी व्याख्या करके उपसंहार किया गया है॥ 22॥

23
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥ 23॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

तम् एवं यथोक्तलक्षणम् आत्मानम्—

हिन्दी

इस प्रकार उस उपर्युक्त लक्षणोंसे युक्त आत्माको—

भाष्य
22 paragraphs · खोलें
संस्कृत

य एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षाद् अहम् इति प्रकृतिं च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तिताम् अभावम् आपादितां विद्या।

सर्वथा सर्वप्रकारेण वर्तमानः अपि स भूयः पुनः पतिते अस्मिन् विद्वच्छरीरे देहान्तराय न अभिजायते न उत्पद्यते देहान्तरं न गृह्णाति इत्यर्थः।

अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न जायते इति अभिप्रायः।

ननु

यद्यपि

ज्ञानोत्पत्त्यनन्तरं

पुन-र्जन्माभाव उक्तः तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां च यानि च अतिक्रान्तानेकजन्मकृतानि तेषां फलम् अदत्त्वा नाशो न युक्त इति स्युः त्रीणि जन्मानि।

कृतविप्रणाशो हि न युक्त इति यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम्। न च कर्मणां विशेषः अवगम्यते। तस्मात् त्रिप्रकाराणि अपि कर्माणि त्रीणि जन्मानि आरभेरन् संहतानि वा सर्वाणि एकं जन्म आरभेरन्।

अन्यथा कृतविनाशे सति सर्वत्र अनाश्वास-प्रसङ्गः शास्त्रानर्थक्यं च स्याद् इति अत इदम् अयुक्तम् उक्तं न स भूयः अभिजायते इति।

न “क्षीयन्ते चास्य कर्माणि” (मु0 उ0 2। 2। 8) “ब्रह्म वेद ब्रह्मैव भवति” (मु0 उ0 3। 2। 9) “तस्य तावदेव चिरम्” (छा0 उ0 6। 14। 2) “इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते” (छा0 उ0 5। 24। 3) इत्यादिश्रुतिशतेभ्य उक्तो विदुषः सर्वकर्मदाहः।

इह अपि च उक्तः “यथैधांसि” इत्यादिना सर्वकर्मदाहो वक्ष्यति च।

उपपत्तेः च। अविद्याकामक्लेशबीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते।

इह अपि च साहंकाराभिसन्धीनि कर्माणि फलारम्भकाणि न इतराणि इति तत्र तत्र भगवता उक्तम्।

“बीजान्यग्न्युपदग्धानि न रोहन्ति

यथा पुनः। ज्ञानदग्धस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः”— इति च।

अस्तु तावद् ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहो ज्ञानसहभावित्वात्। न तु इह जन्मनि ज्ञानोत्पत्तेः प्राक्कृतानाम् अतीतानेकजन्मान्तरकृतानां च दाहो युक्तः।

न, “सर्वकर्माणि” इति विशेषणात्।

ज्ञानोत्तरकालभाविनाम् एव सर्वकर्मणाम् इति चेत्।

न, सङ्कोचे कारणानुपपत्तेः। यत् तु उक्तं यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तानि एव सति अपि ज्ञाने, तथा अनारब्धफलानाम् अपि कर्मणा क्षयो न युक्त इति। तद् असत्।

कथम्, तेषां मुक्तेषुवत् प्रवृत्तफलत्वात्। यथा पूर्वं लक्ष्यवेधाय मुक्त इषुः धनुषो लक्ष्यवेधोत्तरकालम् अपि आरब्धवेगक्षयात् पतनेन एव निवर्तते एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्ते अपि आसंस्कार-वेगक्षयात् पूर्ववद् वर्तते एव।

स एव इषुः प्रवृत्तिनिमित्तानारब्धवेगः तु अमुक्तो धनुषि प्रयुक्तः अपि उपसंह्रियते तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थानि एव ज्ञानेन निर्बीजीक्रियन्ते।

इति पतिते अस्मिन् विद्वच्छरीरे “न स भूयोऽभिजायते” इति युक्तम् एव उक्तम् इति सिद्धम्॥ 23॥

हिन्दी

उस पुरुषको जो मनुष्य उपर्युक्त प्रकारसे अर्थात् साक्षात् आत्मभावसे कि “यही मैं हूँ” इस प्रकार जानता है और उपर्युक्त अविद्यारूप प्रकृतिको भी, अपने विकाररूप गुणोंके सहित, विद्याद्वारा निवृत्त की हुई—अभावको प्राप्त की हुई जानता है।

वह सब प्रकारसे वर्तता हुआ भी, इस विद्वत्-शरीरके नाश होनेपर फिर दूसरे शरीरमें जन्म नहीं लेता अर्थात् दूसरे शरीरको ग्रहण नहीं करता।

“अपि” शब्दसे यह अभिप्राय है कि अपने वर्णाश्रमधर्मके अनुकूल बर्तनेवाला पुनः उत्पन्न नहीं होता, इसमें तो कहना ही क्या है?

पू0—यद्यपि ज्ञान उत्पन्न होनेके पश्चात् पुनर्जन्मका अभाव बतलाया गया है, तथापि ज्ञान उत्पन्न होनेसे पहले किये हुए, ज्ञानोत्पत्तिके पश्चात् किये जानेवाले और अनेक भूतपूर्व जन्मोंमें किये हुए जो कर्म हैं, फल प्रदान किये बिना उनका नाश मानना युक्तियुक्त नहीं है, अतः (ज्ञान प्राप्त होनेके बाद भी) तीन जन्म और होने चाहिये।

अभिप्राय यह है कि सभी कर्म समान हैं, उनमें कोई भेद प्रतीत नहीं होता, अतः फल देनेके लिये प्रवृत्त हुए जन्मारम्भ करनेवाले प्रारब्ध कर्मोंके समान ही किये हुए अन्य कर्मोंका भी (बिना फल दिये) नाश (मानना) उचित नहीं, सुतरां तीनों प्रकारके कर्म तीन जन्मोंका आरम्भ करेंगे अथवा सब मिलकर एक जन्मका ही आरम्भ करेंगे (ऐसा मानना चाहिये)।

नहीं तो किये हुए कर्मोंका (बिना फल दिये) नाश माननेसे, सर्वत्र अविश्वासका प्रसंग आ जायगा और शास्त्रकी व्यर्थता सिद्ध हो जायगी। अतः यह कहना कि “वह फिर जन्म नहीं लेता” ठीक नहीं है।

उ0—यह बात नहीं; क्योंकि “इसके समस्त कर्म क्षय हो जाते हैं” “ब्रह्मको जाननेवाला ब्रह्म ही हो जाता है” “उसके (मोक्षमें) तभीतककी देर है” “अग्निमें तृणके अग्रभागकी भाँति उसके समस्त कर्म भस्म हो जाते हैं” इत्यादि सैकड़ों श्रुतियोंद्वारा विद्वान्के सब कर्मोंका दाह होना कहा गया है।

यहाँ गीताशास्त्रमें भी “यथैधांसि” इत्यादि श्लोकमें समस्त कर्मोंका दाह कहा गया है और आगे भी कहेंगे।

युक्तिसे भी यही बात सिद्ध होती है; क्योंकि अविद्या, कामना आदि क्लेशरूप बीजोंसे युक्त हुए ही कारणरूप कर्म अन्य जन्मरूप अंकुरका आरम्भ किया करते हैं।

यहाँ गीताशास्त्रमें भी भगवान्ने जगह-जगह कहा है कि अहंकार और फलाकाङ्क्षायुक्त कर्म ही फलका आरम्भ करनेवाले होते हैं, अन्य नहीं।

तथा “जैसे अग्निमें दग्ध हुए बीज फिर नहीं उगते, वैसे ही ज्ञानसे दग्ध हुए क्लेशोंद्वारा आत्मा पुनः शरीर ग्रहण नहीं करता” ऐसा भी (शास्त्रोंका वचन है)।

पू0—ज्ञान होनेके पश्चात् किये हुए कर्मोंका ज्ञानद्वारा दाह हो सकता है; क्योंकि वे ज्ञानके साथ होते हैं। परंतु इस जन्ममें ज्ञान उत्पन्न होनेसे पहले किये हुए और भूतपूर्व अनेक जन्मोंमें किये हुए कर्मोंका, ज्ञानद्वारा नाश मानना उचित नहीं।

उ0—यह कहना ठीक नहीं; क्योंकि “सारे कर्म (दग्ध हो जाते हैं)” ऐसा विशेषण दिया गया है।

पू0—यदि ऐसा मानें कि ज्ञानके पश्चात् होनेवाले सब कर्मोंका ही (ज्ञानद्वारा दाह होता है तो?)

उ0—यह बात नहीं है। क्योंकि (इस प्रकारके) संकोचका (कोई) कारण नहीं सिद्ध होता। तुमने जो कहा कि जैसे ज्ञान हो जानेपर भी, वर्तमान जन्मका आरम्भ करनेवाले, फल देनेके लिये प्रवृत्त हुए प्रारब्धकर्म नष्ट नहीं होते, वैसे ही जिनका फल आरम्भ नहीं हुआ है, उन कर्मोंका भी नाश (मानना) युक्तियुक्त नहीं है, सो ऐसा कहना भी ठीक नहीं।

क्योंकि वे प्रारब्धकर्म छोड़े हुए बाणकी भाँति फल देनेके लिये प्रवृत्त हो चुके हैं, इसलिये (उनका फल अवश्य होता है, पर अन्यका नहीं)। जैसे पहले लक्ष्यका वेध करनेके लिये धनुषसे छोड़ा हुआ बाण, लक्ष्यवेध हो जानेके पश्चात् भी आरम्भ हुए वेगका नाश होनेपर गिरकर ही शान्त होता है, वैसे ही शरीरका आरम्भ करनेवाले प्रारब्धकर्म भी, शरीर-स्थितिरूप प्रयोजनके निवृत्त हो जानेपर भी, जबतक संस्कारोंका वेग क्षय नहीं हो जाता, तबतक पहलेकी भाँति वर्तते ही रहते हैं।

वही बाण, जिसका प्रवृत्तिके लिये वेग आरम्भ नहीं हुआ है—जो छोड़ा नहीं गया है, यदि धनुषपर चढ़ा भी लिया गया हो तो भी उसको रोका जा सकता है, वैसे ही जिन कर्मोंके फलका आरम्भ नहीं हुआ है, वे अपने आश्रयमें स्थित हुए ही ज्ञानद्वारा निर्बीज किये जा सकते हैं।

अतः इस विद्वत्-शरीरके गिरनेके पीछे “वह फिर उत्पन्न नहीं होता” यह कहना उचित ही है, यह बात सिद्ध हुई॥ 23॥

24
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥ 24॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

अत्र आत्मदर्शने उपायविकल्पा इमे ध्यानादय उच्यन्ते—

हिन्दी

यहाँ आत्मदर्शनके विषयमें ये ध्यान आदि भिन्न-भिन्न साधन विकल्पसे कहे जाते हैं—

भाष्य
7 paragraphs · खोलें
संस्कृत

ध्यानेन ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य मनः च प्रत्यक् चेतयितरि एकाग्रतया यत् चिन्तनं तद् ध्यानम्। तथा “ध्यायतीव बकः” “ध्यायतीव पृथिवी ध्यायन्तीव पर्वताः” (छा0 उ0 7। 6। 1) इति उपमोपादानात् तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानं तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक् चेतनम् आत्मना ध्यानसंस्कृतेन अन्तःकरणेन केचिद् योगिनः।

अन्ये साङ्ख्येन योगेन साङ्ख्यं नाम— इमे सत्त्वरजस्तमांसि गुणा मया दृश्या अहं तेभ्यः अन्यः तद्व्यापारसाक्षिभूतो नित्यो गुणविलक्षण आत्मा इति चिन्तनम् एष साङ्ख्यो योगः तेन पश्यन्ति आत्मानम् आत्मना इति वर्तते।

कर्मयोगेन कर्म एव योग ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वाद् योग उच्यते गुणतः तेन सत्त्वशुद्धिज्ञानोत्पत्ति-द्वारेण च अपरे॥ 24॥

हिन्दी

शब्दादि विषयोंसे श्रोत्रादि इन्द्रियोंको हटाकर उनका मनमें निरोध करके और मनको अन्तरात्मामें (निरोध करके) जो एकाग्रभावसे चिन्तन करते रहना है, उसका नाम ध्यान है। तथा “जैसे बगुला ध्यान करता है” “जैसे पृथिवी ध्यान करती है” “जैसे पर्वत ध्यान करते हैं” इत्यादि उपमा दी जानेके कारण तैलधाराकी भाँति निरन्तर अविच्छिन्नभावसे चिन्तन करनेका नाम ध्यान है, उस ध्यानद्वारा कितने ही योगीलोग आत्मामें—बुद्धिमें, आत्माको यानी प्रत्यक् चेतनको आत्मासे—ध्यानाभ्यासद्वारा शुद्ध हुए अन्तःकरणसे—देखते हैं।

अन्य कई योगीजन सांख्ययोगके द्वारा (देखते हैं)—“सत्त्व, रज और तम—ये तीनों गुण मुझसे देखे जानेवाले हैं और मैं उनसे भिन्न उनके व्यापारका साक्षी, उन गुणोंसे विलक्षण और नित्य (चेतन) आत्मा हूँ” इस प्रकारके चिन्तनका नाम सांख्य है, यही योग है, ऐसे सांख्ययोगके द्वारा—“आत्मामें आत्माको देखते हैं।”

तथा

अपर

योगीजन

कर्मयोगके

द्वारा ईश्वरार्पणबुद्धिसे अनुष्ठान की हुई चेष्टाका नाम कर्म है, वही योगका साधन होनेके कारण गौणरूपसे योग कहा जाता है, उस कर्मयोगके द्वारा अन्तःकरणकी शुद्धि और ज्ञानप्राप्तिके क्रमसे (आत्मामें आत्माको देखते हैं)॥ 24॥

25
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥ 25॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
भाष्य
संस्कृत

अन्ये तु एषु विकल्पेषु अन्यतरेण अपि एवं यथोक्तम्

आत्मानम्

अजानन्तः

अन्येभ्य आचार्येभ्यः श्रुत्वा इदम् एव चिन्तयत इति उक्ता उपासते श्रद्दधानाः सन्तः चिन्तयन्ति।

ते अपि च अतितरन्ति एव अतिक्रामन्ति एव मृत्युं मृत्युयुक्तं संसारम् इति एतत्। श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिता इति अभिप्रायः।

किमु वक्तव्यं प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्ति इति अभिप्रायः॥ 25॥

हिन्दी

अन्य कई एक साधकजन उपर्युक्त विकल्पोंमेंसे किसी एकके भी द्वारा पूर्वोक्त आत्मतत्त्वको न जानते हुए अन्य आचार्योंसे सुनकर—उनकी ऐसी आज्ञा पाकर कि “तुम इसीका चिन्तन किया करो” उपासना करते हैं—श्रद्धापूर्वक चिन्तन करते हैं।

वे केवल सुननेके परायण हुए पुरुष भी अर्थात् जिनके मतमें श्रवण करना ही मोक्षमार्गसम्बन्धी प्रवृत्तिमें परम आश्रय—गति, परम साधन है, ऐसे केवल अन्य आचार्योंके उपदेशको ही प्रमाण माननेवाले, स्वयं विवेकहीन श्रुतिपरायण पुरुष भी मृत्युको यानी मृत्युयुक्त संसारको निःसन्देह पार कर जाते हैं।

फिर प्रमाण करनेमें जो स्वतन्त्र हैं वे विवेकी पुरुष मृत्युयुक्त संसारसे तर जाते हैं, इसमें तो कहना ही क्या है? यह अभिप्राय है॥ 25॥

26
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ॥ 26॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

क्षेत्रज्ञेश्वरैकत्वविषयं

ज्ञानं

मोक्षसाधनं “यज्ज्ञात्वामृतमश्नुते” इति उक्तम् तत् कस्माद् हेतोः इति तद्धेतुप्रदर्शनार्थं श्लोक आरभ्यते—

हिन्दी

क्षेत्रज्ञ और ईश्वरकी एकताविषयक ज्ञान मोक्षका साधन है, यह बात “यज्ज्ञात्वामृतमश्नुते” इस वाक्यसे कही, परंतु वह ज्ञान किस कारणसे मोक्षका साधन है? उस कारणको दिखानेके लिये यह श्लोक आरम्भ किया जाता है—

भाष्य
13 paragraphs · खोलें
संस्कृत

यावद् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु किम् अविशेषेण इति आह स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञ-संयोगात् तद् जायते इति एवं विद्धि जानीहि हे भरतर्षभ।

कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः। न तावद् रज्ज्वा इव घटस्य अवयवसंश्लेष-द्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति आकाशवद् निरवयवत्वात्। न अपि समवायलक्षणः तन्तुपटयोः इव क्षेत्रक्षेत्रज्ञयोः इतरेतरकार्यकारणभावानभ्युपगमाद् इति।

उच्यते, क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः

इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः। रज्जुशुक्तिकादीनां

तद्विवेकज्ञानाभावाद् अध्यारोपितसर्परजतादिसंयोगवत्।

सः अयम् अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगो मिथ्याज्ञानलक्षणः।

यथाशास्त्र क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राग्दर्शितरूपात् क्षेत्राद् मुञ्जाद् एव इषीकां यथोक्तलक्षणं

क्षेत्रज्ञ

प्रविभज्य

“न सत्तन्नासदुच्यते” इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति।

क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तु-गन्धर्वनगरादिवद् असद् एव सद् इव अवभासते इति एवं निश्चितविज्ञानो यः तस्य यथोक्तसम्यग्दर्शनविरोधाद्

अपगच्छति मिथ्याज्ञानम्।

तस्य जन्महेतोः अपगमात्; “य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह” इत्यनेन विद्वान् भूयो न अभिजायते इति यद् उक्तं तद् उपपन्नम् उक्तम्॥ 26॥

हिन्दी

हे भरतश्रेष्ठ! जो कुछ भी वस्तु उत्पन्न होती है, क्या यहाँ समानभावसे वस्तुमात्रका ग्रहण है? इसपर कहते हैं कि जो कुछ स्थावर-जंगम यानी चर और अचर वस्तु उत्पन्न होती है, वह सब क्षेत्र और क्षेत्रज्ञके संयोगसे ही उत्पन्न होती है, इस प्रकार तू जान।

पू0—इस क्षेत्र और क्षेत्रज्ञके संयोगसे क्या अभिप्राय है? क्योंकि क्षेत्रज्ञ, आकाशके समान अवयवरहित है, इसलिये उसका क्षेत्रके साथ रस्सीसे घड़ेके सम्बन्धकी भाँति, अवयवोंके संसर्गसे होनेवाला सम्बन्धरूप संयोग नहीं हो सकता। वैसे ही आपसमें एक-दूसरेका कार्य-कारण-भाव न होनेसे सूत और कपड़ेकी भाँति, क्षेत्र और क्षेत्रज्ञका समवाय-सम्बन्धरूप संयोग भी नहीं बन सकता।

उ0—बताया जाता है, (सुनो)। क्षेत्र और क्षेत्रज्ञ, जो कि विषय और विषयी तथा भिन्न स्वभाववाले हैं, उनका, अन्यमें अन्यके धर्मोंका अध्यासरूप संयोग है, यह संयोग रज्जु और सीप आदिमें उनके स्वरूपसम्बन्धी ज्ञानके अभावसे अध्यारोपित सर्प और चाँदी आदिके संयोगकी भाँति, क्षेत्र और क्षेत्रज्ञके वास्तविक स्वरूपको न जाननेके कारण है।

ऐसा यह अध्यासस्वरूप क्षेत्र और क्षेत्रज्ञका संयोग मिथ्या ज्ञान है।

जो पुरुष शास्त्रोक्त रीतिसे क्षेत्र और क्षेत्रज्ञके लक्षण और भेदको जानकर पहले जिसका स्वरूप दिखलाया गया है, उस क्षेत्रसे मूँजमेंसे सींक अलग करनेकी भाँति पूर्वोक्त लक्षणोंसे युक्त क्षेत्रज्ञको अलग करके देखता है अर्थात् उस ज्ञेयस्वरूप क्षेत्रज्ञको “न सत्तन्नासदुच्यते” इस वाक्यानुसार समस्त उपाधिरूप विशेषताओंसे अतीत ब्रह्मस्वरूपसे देख लेता है।

तथा जो क्षेत्रको मायासे रचे हुए हाथी, स्वप्नमें देखी हुई वस्तु या गन्धर्वनगर आदिकी भाँति “यह वास्तवमें नहीं है तो भी सत्की भाँति प्रतीत होता है”, ऐसे निश्चयपूर्वक जान लेता है, उसका मिथ्याज्ञान उपर्युक्त यथार्थ ज्ञानसे विरुद्ध होनेके कारण नष्ट हो जाता है।

पुनर्जन्मके कारणरूप उस मिथ्याज्ञानका अभाव हो जानेपर “य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह” इस श्लोकसे जो यह कहा गया है कि “विद्वान् पुनः उत्पन्न नहीं होता” सो युक्तियुक्त ही है॥ 26॥

27
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥ 27॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

“न स भूयोऽभिजायते” इति सम्यग्दर्शन-फलम्

अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभाव

उक्तः।

जन्मकारणं

च अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोग उक्तः। अतः तस्या अविद्याया निवर्तकं सम्यग्दर्शनम् उक्तम् अपि पुनः शब्दान्तरेण उच्यते—

हिन्दी

“न स भूयोऽभिजायते” इस कथनसे पूर्णज्ञानका फल, अविद्या आदि संसारके बीजोंकी निवृत्तिद्वारा पुनर्जन्मका अभाव बतलाया गया तथा अविद्याजनित क्षेत्र और क्षेत्रज्ञके संयोगको जन्मका कारण बतलाया गया। इसलिये उस अविद्याको निवृत्ति करनेवाला पूर्ण ज्ञान, यद्यपि पहले कहा जा चुका है तो भी दूसरे शब्दोंमें फिर कहा जाता है—

भाष्य
10 paragraphs · खोलें
संस्कृत

समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तं क्व सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु कं परमेश्वरं देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः अपेक्ष्य परमेश्वरः तं सर्वेषु भूतेषु समं तिष्ठन्तम्।

तानि विशिनष्टि विनश्यत्सु इति। तं च परमेश्वरम् अविनश्यन्तम् इति भूतानां परमेश्वरस्य च अत्यन्तवैलक्षण्यप्रदर्शनार्थम्।

कथम्—

सर्वेषां हि भावविकाराणां जनिलक्षणो भावविकारो मूलम्, जन्मोत्तरभाविनः अन्ये सर्वे भावविकारा विनाशान्ताः। विनाशात्परो न कश्चिद् अस्ति भावविकारो भावाभावात् सति हि धर्मिणि धर्मा भवन्ति।

अतः अन्त्यभावविकाराभावानुवादेन पूर्व-भाविनः सर्वे भावविकाराः प्रतिषिद्धा भवन्ति सह कार्यैः।

तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तम् एव परमेश्वरस्य सिद्धं निर्विशेषत्वम् एकत्वं च। य एवं यथोक्तम् परमेश्वरं पश्यति स पश्यति।

ननु सर्वः अपि लोकः पश्यति किं विशेषणेन इति।

सत्यं पश्यति किं तु विपरीतं पश्यति अतो विशिनष्टि स एव पश्यति इति।

यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति तम् अपेक्ष्य एकचन्द्रदर्शी विशिष्यते स एव पश्यति इति, तथा एव इह अपि एकम् अविभक्तं यथोक्तम् आत्मानं यः पश्यति स विभक्ताने-कात्मविपरीतदर्शिभ्यो विशिष्यते, स एव पश्यति इति।

इतरे पश्यन्तः अपि न पश्यन्ति विपरीत-दर्शित्वाद् अनेकचन्द्रदर्शिवद् इत्यर्थः॥ 27॥

हिन्दी

(जो पुरुष) ब्रह्मासे लेकर स्थावरपर्यन्त समस्त प्राणियोंमें समभावसे स्थित—(व्याप्त) हुए परमेश्वरको अर्थात् शरीर, इन्द्रिय, मन, बुद्धि, अव्यक्त और आत्माकी अपेक्षा जो परम ईश्वर है, उस परमेश्वरको सब भूतोंमें समभावसे स्थित देखता है।

यहाँ भूतोंसे परमेश्वरकी अत्यन्त विलक्षणता दिखलानेके निमित्त भूतोंके लिये विनाशशील और परमेश्वरके लिये अविनाशी विशेषण देते हैं।

पू0—इससे परमेश्वरकी विलक्षणता कैसे सिद्ध होती है?

उ0—सभी भावविकारोंका जन्मरूप, भावविकार मूल है। अन्य सब भावविकार जन्मके पीछे होनेवाले और विनाशमें समाप्त होनेवाले हैं। भावका अभाव हो जानेके कारण विनाशके पश्चात् कोई भी भावविकार नहीं रहता, क्योंकि धर्मीके रहते ही धर्म रहते हैं।

इसलिये अन्तिम भाव-विकारके अभावका (“अविनश्यन्तम्” इस पदके द्वारा) अनुवाद करनेसे पहले होनेवाले सभी भाव-विकारोंका कार्यके सहित प्रतिषेध हो जाता है।

सुतरां (उपर्युक्त वर्णनसे) परमेश्वरकी सब भूतोंसे अत्यन्त ही विलक्षणता तथा निर्विशेषता और एकता भी सिद्ध होती है। अतः जो इस प्रकार उपर्युक्त भावसे परमेश्वरको देखता है वही देखता है।

पू0—सभी लोग देखते हैं फिर “वही देखता है” इस विशेषणसे क्या प्रयोजन है?

उ0—ठीक है, (अन्य सब भी) देखते हैं परंतु विपरीत देखते हैं, इसलिये वह विशेषण दिया गया है कि वही देखता है।

जैसे कोई तिमिर-रोगसे दूषित हुई दृष्टिवाला अनेक चन्द्रमाओंको देखता है, उसकी अपेक्षा एक चन्द्र देखनेवालेकी यह विशेषता बतलायी जाती है कि वही ठीक देखता है। वैसे ही यहाँ भी जो आत्माको उपर्युक्त प्रकारसे विभागरहित एक देखता है, उसकी अलग-अलग अनेक आत्मा देखनेवाले विपरीतदर्शियोंकी अपेक्षा यह विशेषता बतलायी जाती है कि वही ठीक-ठीक देखता है।

अभिप्राय यह है कि दूसरे सब अनेक चन्द्र देखनेवालेकी भाँति विपरीत भावसे देखनेवाले होनेके कारण, देखते हुए भी वास्तवमें नहीं देखते॥ 27॥

28
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्॥ 28॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोक आरभ्यते—

हिन्दी

उपर्युक्त यथार्थ ज्ञानका फल बतलाकर उसकी स्तुति करनी चाहिये। इसलिये यह श्लोक आरम्भ किया जाता है—

भाष्य
5 paragraphs · खोलें
संस्कृत

समं पश्यन् उपलभमानो हि यस्मात् सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतया अवस्थितम् ईश्वरम् अतीतानन्तरश्लोकोक्तलक्षणम् इत्यर्थः। समं पश्यन् किं न हिनस्ति हिंसां न करोति आत्मना स्वेन एव स्वम् आत्मानं ततः तद् अहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम्।

ननु न एव कश्चित् प्राणी स्व्ायं स्वम् आत्मानं हिनस्ति कथम् उच्यते अप्राप्तं न हिनस्ति इति। यथा न पृथिव्याम् अग्निः चेतव्यो न अन्तरिक्षे इत्यादि।

न एष दोषः अज्ञानाम् आत्मतिरस्कर-णोपपत्तेः। सर्वो हि अज्ञः अत्यन्तप्रसिद्धं साक्षाद् अपरोक्षाद् आत्मानं तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य तम् अपि धर्माधर्मौ कृत्वा उपात्तम् आत्मानं हत्वा, अन्यम् आत्मानम् उपादत्ते नवम्, तं च एवं हत्वा अन्यम्, एवं तम् अपि हत्वा अन्यम् इति एवम् उपात्तम् उपात्तम् आत्मानं हन्ति इति आत्महा सर्वः अज्ञः।

यः तु परमार्थात्मा असौ अपि सर्वदा अविद्यया हत इव विद्यमानफलाभावाद् इति सर्वे आत्महन एव अविद्वांसः।

यः तु इतरो यथोक्तात्मदर्शी स उभयथा अपि आत्मना आत्मानं न हिनस्ति ततो याति परां गतिं यथोक्तं फलं तस्य भवति इत्यर्थः॥ 28॥

हिन्दी

क्योंकि सर्वत्र—सब भूतोंमें समभावसे स्थित हुए ईश्वरको अर्थात् ऊपरके श्लोकमें जिसके लक्षण बतलाये गये हैं, उस (परमेश्वर)-को सर्वत्र समान भावसे देखनेवाला पुरुष स्वयं—अपने-आप अपनी हिंसा नहीं करता, इसलिये अर्थात् अपनी हिंसा न करनेके कारण वह मोक्षरूप परम उत्तम गतिको प्राप्त होता है।

पू0—कोई भी प्राणी स्वयं अपनी हिंसा नहीं करता फिर यह अप्राप्तका निषेध क्यों किया जाता है कि “वह अपनी हिंसा नहीं करता; जैसे कोई कहे कि पृथ्वीपर और अन्तरिक्षमें अग्नि नहीं जलानी चाहिये*।”

उ0—यह दोष नहीं है; क्योंकि अज्ञानियोंसे स्वयं अपना तिरस्कार करना बन सकता है। सभी अज्ञानी अत्यन्त प्रसिद्ध साक्षात्—प्रत्यक्ष आत्माका तिरस्कार करके अनात्मा शरीरादिको आत्मा मानकर, फिर धर्म और अधर्मका आचरण कर, उस प्राप्त किये हुए (शरीररूप) आत्माका नाश करके दूसरे नये (शरीररूप) आत्माको प्राप्त करते हैं। फिर उसका भी इसी प्रकार नाश करके अन्यको और उसका भी वैसे ही नाश करके (पुनः) अन्यको पाते रहते हैं। इस प्रकार बारंबार शरीररूप आत्माको प्राप्त करके उसकी हिंसा करते जाते हैं, अतः सभी अज्ञानी आत्महत्यारे हैं।

जो वास्तवमें आत्मा है वह भी अविद्याद्वारा (अज्ञात होनेके कारण) सदा मारा हुआ-सा ही रहता है; क्योंकि उनके लिये उसका विद्यमान फल भी नहीं होता। सुतरां सभी अविद्वान् आत्माकी हिंसा करनेवाले ही हैं।

परंतु जो इनसे अन्य उपर्युक्त आत्मस्वरूपको जाननेवाला है, वह दोनों प्रकारसे ही अपने द्वारा अपना नाश नहीं करता है। इस लिये वह परमगति प्राप्त कर लेता है अर्थात् उसे पहले बताया हुआ (परम गतिरूप) फल प्राप्त होता है॥ 28॥

* यहाँ पृथ्वीपर अग्नि जलानेका निषेध करना तो इसलिये अयुक्त है कि यदि पृथ्वीपर अग्नि न जलायी जाय तो
कहाँ जलायी जाय? और अन्तरिक्षमें जलानेका निषेध इसलिये ठीक नहीं कि वहाँ तो वह जलायी ही नहीं जा सकती।
29
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति॥ 29॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

सर्वभूतस्थम् ईशं समं पश्यन् न हिनस्ति आत्मना आत्मानम् इति उक्तं तद् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु इति एतद् आशङ्क्य आह—

हिन्दी

यह जो कहा कि ईश्वरको सब भूतोंमें सम भावसे स्थित देखता हुआ पुरुष, आत्माद्वारा आत्माका नाश नहीं करता, यह युक्तिसङ्गत नहीं है; क्योंकि अपने गुण और कर्मोंकी विलक्षणतासे विभिन्न हुए जीवोंमें इस प्रकार देखना नहीं बन सकता, ऐसी शंका करके कहते हैं—

भाष्य
संस्कृत

प्रकृत्या प्रकृतिः भगवतो माया त्रिगुणात्मिका, “मायां तु प्रकृतिं विद्यात्” (श्वे0 उ0 4। 10) इति मन्त्रवर्णात् तया प्रकृत्या एव च न अन्येन

महदादिकार्यकरणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते।

तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितं पश्यति स परमार्थदर्शी इति अभिप्रायः। निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्य इव भेदे प्रमाणानुपपत्तिः इत्यर्थः॥ 29॥

हिन्दी

“मायाको प्रकृति समझना चाहिये” इत्यादि मन्त्रोंके अनुसार भगवान्की त्रिगुणात्मिका मायाका नाम प्रकृति है, जो कि महत्तत्त्व आदि कार्य-करणके आकारमें परिणत है; उस प्रकृतिद्वारा ही मन, वाणी और शरीरसे होनेवाले सारे कर्म, सब प्रकारसे सम्पादन किये जाते हैं; अन्य किसीसे नहीं, इस प्रकार जो देखता है।

तथा आत्माको—क्षेत्रज्ञको जो समस्त उपाधियोंसे रहित अकर्ता देखता है, वही देखता है अर्थात् वही परमार्थदर्शी है; क्योंकि आकाशकी भाँति निर्गुण और विशेषतारहित अकर्ता आत्मामें, भेदभावका होना प्रमाणित नहीं हो सकता। यह अभिप्राय है॥ 29॥

30
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥ 30॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

पुनरपि तद् एव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति—

हिन्दी

फिर भी, उसी यथार्थ ज्ञानकी दूसरे शब्दोंसे व्याख्या करते हैं—

भाष्य
संस्कृत

यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्थम् एकस्मिन् आत्मनि स्थितम् एकस्थम् अनुपश्यति शास्त्राचार्योपदेशतो मत्वा आत्मप्रत्यक्षत्वेन पश्यति “आत्मैवेदं सर्वम्” (छा0 उ0 7। 25। 2) इति।

तत एव च तस्माद् एव च विस्तारम् उत्पत्तिं विकासम् “आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नम्” (छा0 उ0 7। 26। 1) इति एवम् आदिप्रकारैः विस्तारं यदा पश्यति ब्रह्म सम्पद्यते ब्रह्म एव भवति तदा तस्मिन् काले इत्यर्थः॥ 30॥

हिन्दी

जिस समय (यह विद्वान्) भूतोंके अलग-अलग भावोंको—भूतोंकी पृथक्ताको, एक आत्मामें ही स्थित देखता है अर्थात् शास्त्र और आचार्यके उपदेशसे मनन करके आत्माको इस प्रकार प्रत्यक्षभावसे देखता है कि “यह सब कुछ आत्मा ही है।”

तथा उस आत्मासे ही सारा विस्तार—सबकी उत्पत्ति—विकास देखता है अर्थात् जिस समय “आत्मासे ही प्राण, आत्मासे ही आशा, आत्मासे ही संकल्प, आत्मासे ही आकाश, आत्मासे ही तेज, आत्मासे ही जल, आत्मासे ही अन्न, आत्मासे ही सबका प्रकट और लीन होना” इत्यादि प्रकारसे सारा विस्तार आत्मासे ही हुआ देखने लगता है; उस समय वह ब्रह्मको प्राप्त हो जाता है—ब्रह्मरूप ही हो जाता है॥ 30॥

31
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥ 31॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

एकस्य आत्मनः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते इदम् उच्यते—

हिन्दी

एक ही आत्मा सब शरीरोंका आत्मा माना जानेसे, उसका उन सबके दोषोंसे सम्बन्ध होगा, ऐसी शंका होनेपर यह कहा जाता है—

भाष्य
14 paragraphs · खोलें
संस्कृत

अनादित्वाद् अनादेः भावः अनादित्वम् आदिः कारणं तद् यस्य न अस्ति तद् अनादिः। यद् हि आदिमत् तत् स्वेन आत्मना व्येति अयं तु अनादित्वाद् निरवयव इति कृत्वा न व्येति।

तथा निर्गुणत्वात् सगुणो हि गुणव्ययाद् व्येति अयं तु निर्गुणत्वाद् न व्येति इति परमात्मा अयम् अव्ययो न अस्य व्ययो विद्यते इति अव्ययः।

यत एवम् अतः शरीरस्थः अपि शरीरेषु आत्मन उपलब्धिः भवति इति शरीरस्थ उच्यते तथा न करोति। तदकरणाद् एव तत्फलेन न लिप्यते।

यो हि कर्ता स कर्मफलेन लिप्यते अयं तु अकर्ता अतो न फलेन लिप्यते इत्यर्थः।

कः पुनः देहेषु करोति लिप्यते च, यदि तावद् अन्यः परमात्मनो देही करोति लिप्यते च तत इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् “क्षेत्रज्ञं चापि मां विद्धि” इत्यादि।

अथ न अस्ति ईश्वराद् अन्यो देही कः करोति लिप्यते च इति वाच्यं परो वा नास्ति इति।

सर्वथा दुर्विज्ञेयं दुर्वाच्यं च इति भगवत्प्रोक्तम् औपनिषदं

दर्शनं

परित्यक्तं

वैशेषिकैः साङ्ख्यार्हतबौद्धैः च।

तत्र अयं परिहारो भगवता स्वेन एव उक्तः “स्वभावस्तु प्रवर्तते” इति। अविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति न तु परमार्थत एकस्मिन् परमात्मनि तद् अस्ति।

अत

एतस्मिन्

परमार्थसाङ्ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो न अस्ति इति तत्र तत्र दर्शितं भगवता॥ 31॥

हिन्दी

आदि कारणको कहते हैं, जिसका कोई कारण न हो, उसका नाम अनादि है और अनादिके भावका नाम अनादित्व है यह परमात्मा अनादि होनेके कारण अव्यय है; क्योंकि जो वस्तु आदिमान् होती है, वही अपने स्वरूपसे क्षीण होती है। किंतु यह परमात्मा अनादि है, इसलिये अवयवरहित है। अतः इसका क्षय नहीं होता।

तथा निर्गुण होनेके कारण भी यह अव्यय है; क्योंकि जो वस्तु गुणयुक्त होती है, उसका गुणोंके क्षयसे क्षय होता है। परंतु यह (आत्मा) गुणरहित है, अतः इसका क्षय नहीं होता। सुतरां यह परमात्मा अव्यय है, अर्थात् इसका व्यय नहीं होता।

ऐसा होनेके कारण यह आत्मा शरीरमें स्थित हुआ भी—शरीरमें रहता हुआ भी कुछ नहीं करता है, तथा कुछ न करनेके कारण ही उसके फलसे भी लिप्त नहीं होता है। आत्माकी शरीरमें प्रतीति होती है, इसलिये शरीरमें स्थित कहा जाता है।

क्योंकि जो कर्ता होता है वही कर्मोंके फलसे लिप्त होता है। परंतु यह अकर्ता है, इसलिये फलसे लिप्त नहीं होता, यह अभिप्राय है।

पू0—तो फिर शरीरोंमें ऐसा कौन है जो कर्म करता है और उसके फलसे लिप्त होता है? यदि यह मान लिया जाय कि परमात्मासे भिन्न कोई शरीरी कर्म करता है और उसके फलसे लिप्त होता है तब तो “क्षेत्रज्ञ भी तू मुझे ही जान” इस प्रकार जो क्षेत्रज्ञ और ईश्वरकी एकता कही है, वह अयुक्त ठहरेगी।

यदि यह माना जाय कि ईश्वरसे पृथक् अन्य कोई शरीरी नहीं है तो यह बतलाना चाहिये, फिर कौन करता और लिप्त होता है? अथवा यह कह देना चाहिये कि (इन सबसे) पर कोई ईश्वर ही नहीं है।

(बात तो यह है कि) भगवान्द्वारा कहा हुआ यह उपनिषद्रूप दर्शन सर्वथा दुर्विज्ञेय और दुर्वाच्य है, इसीलिये वैशेषिक, सांख्य, जैन और बौद्ध-मतावलम्बियोंद्वारा यह छोड़ दिया गया है।

उ0—इसका उत्तर “स्वभाव ही वर्तता है” ऐसा कहकर भगवान्ने स्वयं ही दे दिया है; क्योंकि अविद्यामात्र स्वभाववाला ही करता है और लिप्त होता है, इसीसे यह व्यवहार चल रहा है। वास्तवमें अद्वितीय परमात्मामें वे (“कर्तापन” और “लिप्त होना” आदि) नहीं हैं।

सुतरां इस वास्तविक ज्ञानदर्शनमें स्थित हुए ज्ञाननिष्ठ, परमहंस परिव्राजक संन्यासियोंका जिन्होंने अविद्याकृत समस्त व्यवहारका तिरस्कार कर दिया है,कर्मोंमें अधिकार नहीं है—यह बात जगह-जगह भगवान्द्वारा दिखलायी गयी है॥ 31॥

32
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते॥ 32॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किम् इव न करोति न लिप्यते इति अत्र दृष्टान्तम् आह—

हिन्दी

परमात्मा किसीकी भाँति न करता है और न लिप्त होता है? इसपर यहाँ दृष्टान्त कहते हैं—

भाष्य
संस्कृत

यथा सर्वगतं व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावाद् आकाशं खं न उपलिप्यते न सम्बध्यते सर्वत्र अवस्थितो देहे तथा आत्मा न उपलिप्यते॥ 32॥

हिन्दी

जैसे आकाश, सर्वत्र व्याप्त हुआ भी सूक्ष्म होनेके कारण लिप्त नहीं होता—सम्बन्धयुक्त नहीं होता, वैसे ही आत्मा भी शरीरमें सर्वत्र स्थित रहता हुआ भी (उसके गुण-दोषोंसे) लिप्त नहीं होता॥ 32॥

33
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥ 33॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

किं च—

हिन्दी

तथा—

भाष्य
संस्कृत

यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः तथा तद्वद् महाभूतादिधृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति कः क्षेत्री परमात्मा इत्यर्थः।

रविदृष्टान्तः अत्र आत्मन उभयार्थः अपि भवति रविवत् सर्वक्षेत्रेषु एक आत्मा अलेपकः च इति॥ 33॥

हिन्दी

जैसे एक ही सूर्य इस समस्त लोकको प्रकाशित करता है, वैसे ही महाभूतोंसे लेकर धृतिपर्यन्त बतलाये हुए समस्त क्षेत्रको वह एक होते हुए भी प्रकाशित करता है। कौन करता है? क्षेत्रज्ञ—परमात्मा।

यहाँ आत्मामें सूर्यका दृष्टान्त दोनों प्रकारसे ही घटता है, आत्मा सूर्यकी भाँति समस्त शरीरोंमें एक है और अलिप्त भी है॥ 33॥

34
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥ 34॥
श्रीमद्भगवद्गीता शांकरभाष्यAdi Shankaracharya
सम्बन्ध
संस्कृत

समस्ताध्यायार्थोपसंहारार्थः अयं श्लोकः—

हिन्दी

सारे अध्यायके अर्थका उपसंहार करनेके लिये यह श्लोक (कहा जाता है)—

भाष्य
संस्कृत

क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथा-प्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितम् आत्म-प्रत्ययिकज्ञानं चक्षुः तेन ज्ञानचक्षुषा भूतप्रकृति-मोक्षं च भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या तस्या भूतप्रकृतेः मोक्षणम् अभावगमनं च ये विदुः विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुनः देहम् आददते इत्यर्थः॥ 34॥

हिन्दी

जो पुरुष शास्त्र और आचार्यके उपदेशसे उत्पन्न आत्मसाक्षात्काररूप ज्ञाननेत्रोंद्वारा, पहले बतलाये हुए क्षेत्र और क्षेत्रज्ञके अन्तरको—उनकी पारस्परिक विलक्षणताको इस पूर्वदर्शित प्रकारसे जान लेते हैं, और वैसे ही अव्यक्त नामक अविद्यारूप भूतोंकी प्रकृतिके मोक्षको, यानी उसका अभाव कर देनेको भी जानते हैं, वे परमार्थतत्त्वस्वरूप ब्रह्मको प्राप्त हो जाते हैं, पुनर्जन्म नहीं पाते॥ 34॥

13.1श्रीमद्भगवद्गीता शांकरभाष्य